भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · अध्याय 1.4

1.4.1

वृष्णे बृहते स्वर्विन्दे अग्नये शल्कं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक् च नो जीवातवे दधात्वग्नये स्वाहा (पैप्प्स् 19.52.6) इत्युत्तरार्धपूर्वार्ध आग्नेयमाज्यभागं जुहोति

1.4.2

दक्षिणपूर्वार्धे सोमाय त्वं सोम दिव्यो नृचक्षाः सुगा;म् अस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषोऽच्छा नो वाचमुशतीं जिगासि सोमाय स्वाहा (पैप्प्स् 1.51.3) इति

1.4.3

ऽवृष्णे बृहतेऽ ऽत्वं सोम दिव्यःऽ इत्याज्यभागान्तं कृत्वा तत आग्नेयं चरुं जुहोति ऽउदेनमुत्तरं नयऽ (6.5.1-3) इति त्रिभिरृग्भिः ऽप्रजापते न त्वत्ऽ (7.80.3) इति च चतस्र आहुतीर्जुहोति ॥
मध्ये हविः

1.4.4

उपस्तीर्याज्यं संहताभ्यामङ्गुलिभ्यां द्विर्हविषोऽवद्यति मध्यात् पूर्वार्धाच्च

1.4.5

अवत्तमभिघार्य द्विर्हविः प्रत्यभिघारयति

1.4.6

यतोयतोऽवद्यति तदनुपूर्वम्

1.4.7

एवं सर्वाण्यवदानानि

1.4.8

अन्यत्र सौविष्टकृतात्

1.4.9

उदेनमुत्तरं नय (6.5.1-3) इति पुरस्ताद्धोमसंहतां पूर्वाम्

1.4.10

[एवं पूर्वाम्पूर्वां संहतां जुहोति

1.4.11

]
इत्यादि प्रत्याहुति योजयितव्यम् ॥
स्वाहान्ताभिः प्रत्यृचं होमाः

1.4.12

[यामुत्तरामग्नेराज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा

1.4.13

तस्मादन्तरा होतव्या देवलोक एव हूयन्ते

1.4.14

यां हुत्वा पूर्वामपरां जुहोति सापक्रामन्ती स पापीयान् यजमानो भवति

1.4.15

यां पराम्परां संहतां जुहोति साभिक्रामन्ती स वसीयान् यजमानो भवति

1.4.16

यामनग्नौ जुहोति सान्धा तया चक्षुर्यजमानस्य मीयते सोऽन्धम्भावुको यजमानो भवति

1.4.17

यां धूमे जुहोति सा तमसि हूयते सोऽरोचको यजमानो भवति

1.4.18

यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्माज्ज्योतिष्मति होतव्यम्

1.4.19

]
सर्वत्र हविराज्यं च चतुर्गहीतम् । उक्तं च ऽसर्वत्र चतुर्गृहीतेन होमःऽ ॥
[एवम् अस्मै क्षत्रमग्नीषोमौ (6.54.2) इत्यग्नीषोमीयस्य

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc