भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · अध्याय 1.1

1.1.1

केशवकृता कौशिकपद्धतिः
ओम् नमोऽथर्ववेदाय । अथर्ववेदस्य संहिताविधेर्विवरणं क्रियते । तत्राथर्ववेदस्य नव भेदा भवन्ति । तत्र चतसृषु शाखासु शौनकादिषु कौशिकोऽयं संहिताविधिः । स च गोपथब्राह्मणादर्थवादादि परित्यज्य विधिमात्रं कल्पयित्वा विधिः कृतः । तत्र यथोपयोगं टीका क्रियते संहिताविधेः । तत्राह सूत्रं कौशिकः -
[दर्शपूर्णमासविधिः]
अथ विधिं वक्ष्यामः

1.1.2

अथशब्द आनन्तर्यार्थः । संहिताध्ययनानन्तरं विधेरधिकारः । संहिताविधिं वक्ष्यामः । शान्तिकपौष्टिकाभिचारिकाद्भुतादीनि कर्माणि संहिताविधावुक्तानि । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । त्रिप्रमाणको विधिः । प्रत्यक्षमनुमानं शब्दं चेति ॥
स पुनराम्नायप्रत्ययः

1.1.3

स विधिर्वेदप्रत्ययः । गोपथब्राह्मणप्रमाणकः ॥
आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि च

1.1.4

आम्नायशब्देन किमुच्यते । तत्राह मन्त्रब्राह्मणमाम्नायशब्देनोच्यते ॥
तद्यथा ब्राह्मणविधिरेवं कर्मलिङ्गा मन्त्राः

1.1.5

यथा संहिताविधेः कर्मोक्तं तथैवंलिङ्गा मन्त्रा अपि भवन्ति । यथा वाताज्जात (4.10) इति शङ्खं बध्नाति ॥
तथान्यार्थाः

1.1.6

अन्यार्था अपि मन्त्रा भवन्ति । यथा ऽअग्निं ब्रूमो (11.6) उतामृतासुः (5.1.7) शिवास्त (7.43) इत्यभ्याख्याताय प्रयच्छतिऽ (कौश्स् 46.1) ॥
तथा ब्राह्मणलिङ्गा मन्त्राः

1.1.7

ऽब्रह्म ह वा इदमग्र आसीत्ऽ (गोब्रा 1.1.1) इत्यादि पूर्वब्राह्मणम् । एवंरूपा अपि मन्त्रा भवन्ति । यथा ऽविराड् वा इदमग्र आसीत्ऽ (8.10.1) इत्याद्यर्थवादार्था अपि मन्त्रा भवन्ति ॥
तदभावे सम्प्रदायः

1.1.8

संहिताविधौ यन्नाम्नायते तत् सर्वं स्वशाखान्यायेन परम्परया सम्प्रदायेन कर्तव्यम् । तथा चोक्तं भट्टपादैः - न्यायेन सम्प्रदायेन यान्ति कर्माणि मीमांसका इति । तथा नदीवालुकया वेदिकरणं शान्तिककर्मसु शान्तवृक्षकाष्ठेन वेदिमानं च । तथा मीमांसायां स्मृतिपादे स्मृत्याचाराणां प्रमाणमुक्तम् ॥
प्रमुक्तत्त्वाद् ब्राह्मणानाम्

1.1.9

आचारसम्प्रदायविषये विस्मृतानि ब्राह्मणानि । शिष्यैः सम्प्रदायो रक्षितः । उपवर्षाचार्येणोक्तं मीमांसायां स्मृतिपादे कल्पसूत्राधिकरणे.
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः.
चतुर्थोऽङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः ॥
इति । ऽएते कल्पा वेदतुल्या हिऽ इति भगवतोपवर्षाचार्येण प्रतिपादितम् । अन्ये कल्पाः स्मृतितुल्याः ॥
यज्ञं व्याख्यास्यामो देवानां पितॄणां च

1.1.10

पाकतन्त्रमाज्यतन्त्रं च यज्ञशब्देनोच्यते । तं व्याख्यास्यामः । देवानां यज्ञः शान्तिकपौष्टिकादि । पितॄणां पितृमेधपिण्डपितृयज्ञादि ॥
प्राङ्मुख उपांशु करोति

1.1.11

प्राङ्मुखः सर्वकर्माणि करोति । नित्यनैमित्तिककाम्यानि कर्माणि । उपांशु च । एकपुरुषान्तरं द्वितीयः पुरुषः शृणोति शब्दं तदुपांश्वित्युच्यते ॥
यज्ञोपवीती देवानाम्

1.1.12

प्राचीनावीती पितॄणाम्

1.1.13

यज्ञोपवीती भूत्वा नित्यं नैमित्तिकं काम्यं च कर्म कुर्यात् । अपसव्यं कृत्वा पितृकर्म कुर्यात् पिण्डपितृयज्ञादि ॥
प्रागुदग्वा देवानाम्

1.1.14

दक्षिणा पितॄणाम्

1.1.15

प्राङ्मुखो वोदङ्मुखो वा देवकर्माणि सर्वाणि कुर्यात् । दक्षिणामुखः पितृकर्माणि कुर्यात् । केचित् दक्षिणपूर्वमन्तर्देशमभिमुखः पितृकर्म कुर्यात् ॥
प्रागुदगपवर्गं देवानाम्

1.1.16

दक्षिणप्रत्यगपवर्गं पितॄणाम्

1.1.17

प्रागुदग्वा कर्मसमाप्तिर्दैवकर्मसु । दक्षिणा प्रत्यग्वा समाप्तिः पितृकर्मसु । केचित्-प्रागुदगन्तराले समाप्तिः ॥
सकृत् कर्म पितॄणां त्र्यवरार्धं देवानाम्

1.1.18

आचमनप्रोक्षणादिषु पितॄणां सकृत् कर्म कुर्यात् । देवानां चतुर्वा त्रिर्वा सर्वं कर्म कुर्यात् । निर्वपणपरिस्तरणाज्यग्रहणादि कर्म ॥
यथादिष्टं वा

1.1.19

यथापठितं वा कर्म कुर्यात् । यथा ऽपरि त्वाग्ने पुरं वयम् (7.71.1) इति त्रिः पर्यग्नि करोतिऽ (कौश्स् 2.10) ॥
अभिदक्षिणमाचारो देवानां प्रसव्यं पितॄणाम्

1.1.20

प्रदक्षिणं देवानां कर्म कुर्यात् । अप्रदक्षिणं पितृकर्म ॥
स्वाहाकारवषट्कारप्रदाना देवाः

1.1.21

स्वधाकारनमस्कारप्रदानाः पितरः

1.1.22

देवानां हविर्दीयते स्वाहाकारेण वषट्कारेण वा । ऽस्वाहान्ताभिः प्रत्यृचं होमाःऽ (कौश्स् 4.11) सर्वत्र । स्वधाकारेण नमस्कारेण पितॄणां दीयते ॥
उपमूललूनं बर्हिः पितॄणाम्

1.1.23

पर्वसु देवानाम्

1.1.24

समूलं बर्हिः पितॄणाम् । लूनं देवानां बर्हिः । सकृदाच्छिन्नं पितॄणां बर्हिः । उपहरणम् । ऽउत्तरतोऽग्नेरुपसादयतीध्ममुत्तरं बर्हिःऽ (कौश्स् 2.13-14)
[प्र यच्छ पर्शुम् (12.3.31) इति दर्भाहाराय दात्रं प्रयच्छति

1.1.25

]
ऽप्र यच्छ पर्शुम्ऽ इत्यादि ऽअहिंसन्तःऽ (12.3.31) इत्यन्तेन ॥
[ओषधीर्दान्तु पर्वन् (12.3.31) इत्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति

1.1.26

]
ऽओषधीर्दान्तु पर्वन्ऽ इत्यादिशेषेण बर्हिर्लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति । आवसथ्याग्नेरुत्तरतो बर्हिरुपसादयति । केचिद् व्रतोपायनान्तं कृत्वा बर्हिर्लवनं कुर्वन्ति । कर्मणां द्व्यहकालत्वात् ॥
नाग्निं विपर्यावर्तेत

1.1.27

अग्निं पृष्ठतो न वसेत । नाप्रदक्षिणं कुर्यात्.
नान्तरा यज्ञाङ्गानि व्यवेयात्

1.1.28

अन्तरा मध्ये न गच्छेत् । अग्नौ यज्ञपात्रेषु ब्राह्मणेषु व्यवायं न कुर्यात् ॥
दक्षिणं जानु प्रभुज्य जुहोति

1.1.29

होमकर्मकाले दक्षिणं जानु प्रपात्य ततो होमः कार्यः ॥
या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका

1.1.30

या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः

1.1.31

साङ्ख्यायनीये ब्राह्मणे उक्तं ऽद्वे पौर्णमास्यौ द्वे अमावास्येऽ (शाम्ब्रा 4.4) इति । पौर्णमासी प्रतिपदिति । अमावास्या प्रतिपदिति । पूर्वोपोष्योत्तरा याज्या । केचित् पूर्वा चतुर्दशी मन्यन्ते । केचिच्चतुर्दशीमिश्रा पौर्णमास्यमावास्येति । तिथिभेदे चतुर्दशीमिश्रोपोष्या प्रतिपन्मिश्रा याज्या ॥
अद्योपवसथ इत्युपवत्स्यद्भक्तमश्नाति

1.1.32

तिथिभेदे मुख्या पौर्णमासी । भेदे या पूर्वा सोपोष्या । उपवासं करोति । उपवासो वेदे भक्तमशनम् । येन यागं करोति तन्नाश्नाति यजमानः ॥
मधुलवणमांसमाषवर्जम्

1.1.33

एतान्युपवसथे नाश्नीयात् । एतानि द्रव्याणि प्रसिद्धानि । व्रतोपायनान्तं कृत्वा ततो व्रतग्रहणं करोति । ब्रह्मचर्यादि करोति । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । मेधाजननादि पिण्डपितृयज्ञान्तं (कौश्स् 10-89) विधिकर्मत्वम् । अनध्यायकण्डिका (कौश्स् 141) च । मधुपर्कादीन्द्रमहान्तम् (कौश्स् 90-140) अविधिकर्मत्वम् । यत्र सूक्तविनियोगं कृत्वा पुनरृचां विनियोगस्तत्रोच्छ्रयकर्मत्वं यथा ऽउदुत्तमम्ऽ (7.88.3) इति । परिभाषा प्रथमेऽध्याये सर्वार्था विधिकर्मार्थाऽविधिकर्मार्था च । परिशिष्टानां परिभाषात्वम् । पञ्चकल्पानां विधिकर्मत्वम् । अद्भुतेषु द्वितीया परिभाषा । कुलं वा ग्रामो वा जनपदो वा तत्र राजा भूमिपतिर्विद्वांसं भूग्वङ्गिरसं वृणीयात् इत्यादि तत्रोक्तम् ।
कौशिकोक्तानां कर्मणां विदुषां हितार्थायानुष्ठानपद्धतिः क्रियते ॥
ऽअव्यसश्चऽ (19.68.1) बर्हिर्लवनवेद्युत्तरवेद्यग्निप्रतिष्ठापनान्तं कृत्वा -
[ममाग्ने वर्चः (5.3.1) इति समिध आधाय व्रतमुपैति

1.1.34

व्रतेन त्वं व्रतपते (7.74.4) इति वा

1.1.35

ब्रह्मचारी व्रत्यधः शयीत

1.1.36

]
ऽममाग्ने वर्चःऽ इति समिध आधाय ऽव्रतेन त्वं व्रतपतेऽ इत्यृचा भक्तं जुहोति । एतत् कृत्वा ततो द्वितीयेऽहनीदं करोति ॥
[प्रातर्हुतेऽग्नौ कर्मणे वां वेषाय वां सुकृताय वाम् इति पाणी प्रक्षाल्यापरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोम प्रस्तीर्य पवित्रे कुरुते

1.1.37

दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि विष्णोर्मनसा पूते स्थः इति

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc