भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 9.6

9.6.1

अथ.केवलम्.सोमम्.प्राञ्चम्.हरन्ति ।

9.6.2

तस्मात्.केवलीः.सौमीर्.अन्वाह । (सोम: अग्नी.षोम.प्रणयन)

9.6.3

सोमो.जिगाति.गातुविद्.इति.इतवत्.तृचम्.अनुब्रुवन्न्.अनुसमेति ।

9.6.4

अथ.अध्वर्युर्.आहवनीये.पुनर्.आहुतिम्.जुहोति । (सोम: अग्नी.षोम.प्रणयन)

9.6.5

ताम्.सम्प्रत्य्.एताम्.अनुब्रूयाद्.उप.प्रियम्.पनिप्नतम्.इति ।

9.6.6

तस्या.एव.एषा.याज्या.आहुती.वृधम्.इत्य्.अभिरूपा । (सोम: अग्नी.षोम.प्रणयन)

9.6.7

अथ.पूर्वया.द्वारा.राजानम्.प्रपादयन्ति ।

9.6.8

तस्मिन्.प्रपाद्यमाने.तम्.अस्य.राजा.वरुणस्.तम्.अश्विना.इति । (सोम: अग्नी.षोम.प्रणयन)

9.6.9

व्रजम्.च.विष्णुः.सखिवाम्.अपोर्णुत.इत्य्.अभिरूपाम्.प्रपाद्यमानाय.अन्वाह । (सोम: अग्नी.षोम.प्रणयन)

9.6.10

अन्तश्.च.प्रागा.अदितिर्.भवासि.इति.प्रपन्नवतीम्.प्रपन्नाय ।

9.6.11

श्येनो.न.योनिम्.सदनम्.धिया.कृतम्.गणानाम्.त्वा.गण.पतिम्.हवामहे.अस्तभ्नाद्.द्याम्.असुरो.विश्व.देवा.इति.सन्नवतीभिः.सन्नम्.अनुस्तौति । (सोम: अग्नी.षोम.प्रणयन)

9.6.12

एवा.वन्दस्व.वरुणम्.बृहन्तम्.इत्य्.आशीर्वत्या.परिदधाति ।

9.6.13

अभिरूपा.अन्वाह । (सोम: अग्नी.षोम.प्रणयन)

9.6.14

यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै ।

9.6.15

ता.वै.विंशतिम्.अन्वाह । (सोम: अग्नी.षोम.प्रणयन)

9.6.16

ता.विराजम्.अभिसम्पद्यन्ते ।

9.6.17

वैराजः.सोमः ।

9.6.18

अन्नम्.विराड्.अन्नम्.सोमः । (सोम: अग्नी.षोम.प्रणयन)

9.6.19

अन्नेन.तद्.अन्न.अद्यम्.समर्धयति ।

9.6.20

त्रिः.प्रथमया.त्रिरु.उत्तमया.चतुर्विंशतिः.सम्पद्यन्ते । (सोम: अग्नी.षोम.प्रणयन)

9.6.21

चतुर्विंशतिर्.वै.संवत्सरस्य.अर्ध.मासाः ।

9.6.22

संवत्सरस्य.एव.आप्त्यै । (सोम: अग्नी.षोम.प्रणयन)

9.6.23

एवम्.नु.यदि.पूर्वया.द्वारा.राजानम्.प्रपादयेयुः ।

9.6.24

यद्य्.उ.वा.अपरया । (सोम: अग्नी.षोम.प्रणयन)

9.6.25

तेन.एव.होता.अनुसमियात् ।

9.6.26

आत्मा.वै.यज्ञस्य.होता ।

9.6.27

प्राणः.सोमः । (सोम: अग्नी.षोम.प्रणयन)

9.6.28

न.इत्.प्राणाद्.आत्मानम्.अपादधानि.इति ।

9.6.29

उत्तरतो.दक्षिणा.तिष्ठन्.परिदधाति ।

9.6.30

यशो.वै.सोमो.राजा.अन्न.अद्यम् ।

9.6.31

अमुत.एव.तद्.अर्वाग्.आत्मन्.यशो.धत्ते.यशो.धत्ते । (सोम: अग्नी.षोम.प्रणयन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc