कौषीतकिब्राह्मण · अध्याय 9.5
ब्रह्म.वा.अग्निः.क्षत्रम्.सोमः ।
तद्.यद्.उपवसथे.अग्नीषोमौ.प्रणयन्ति ।
ब्रह्म.क्षत्राभ्याम्.एव.तद्.यजमानस्य.पाप्मानम्.अपघ्नन्ति । (सोम: अग्नी.षोम.प्रणयन)
तद्.उ.वा.आहुर्.आसीन.एव.होता.एताम्.प्रथमाम्.अनुब्रूयात् ।
सर्वाणि.ह.वै.भूतानि.सोमम्.राजानम्.प्रणीयमानम्.अनु.प्रच्यवन्ते । (सोम: अग्नी.षोम.प्रणयन)
तद्.यद्.आसीनो.होता.एताम्.ऋचम्.अन्वाह ।
तद्.एव.सर्वाणि.भूतानि.यथा.आयतनम्.नियच्छति.इति । (सोम: अग्नी.षोम.प्रणयन)
सावीर्.(?).हि.देव.प्रथमाय.पित्र.इति.सावित्रीम्.प्रथमाम्.अन्वाह । (सोम: अग्नी.षोम.प्रणयन)
सवितृ.प्रसूततायै ।
सवितृ.प्रसूतस्य.ह.वै.न.काचन.रिष्टिर्.भवत्य्.अरिष्ट्यै । (सोम: अग्नी.षोम.प्रणयन)
उत्तिष्ठ.ब्रह्मणस्पत.इत्य्.उत्थापयति.प्रैतु.ब्रह्मणस्पतिर्.इति.प्रणयति.ब्राह्मणस्पत्ये.अभिरूपे.अन्वाह । (सोम: अग्नी.षोम.प्रणयन)
ब्रह्म.वै.ब्रह्मणस्पतिः ।
ब्रह्मणा.एव.तद्.ब्रह्म.समर्धयति । (सोम: अग्नी.षोम.प्रणयन)
होता.देवो.अमर्त्य.उप.त्वा.अग्ने.दिवे.दिव.इति.केवल.आग्नेयौ.तृचाव्.अन्वाह । (सोम: अग्नी.षोम.प्रणयन)
अग्निम्.हि.पूर्वम्.हरन्ति ।
तौ.वा.इतवन्तौ.भवतः ।
ह्रियमाणम्.ह्य्.अग्निम्.स्तौति । (सोम: अग्नी.षोम.प्रणयन)
स.यत्र.उपाधिगच्छेद्.भूतानाम्.गर्भम्.आदध.इति ।
तद्.गर्भ.कामायै.गर्भम्.ध्यायात् । (सोम: अग्नी.षोम.प्रणयन)
लभते.ह.गर्भम् ।
अथ.अग्नीध्रे.अग्निम्.निदधति ।
तद्.अध्वर्युर्.आहुतिम्.जुहोति । (सोम: अग्नी.षोम.प्रणयन)
ताम्.सम्प्रत्य्.एताम्.अनुब्रूयाद्.अग्ने.जुषस्व.पति.हर्य.तद्.वच.इति ।
तस्या.एव.एषा.याज्या.जुषस्व.प्रति.हर्या.इत्य्.अभिरूपा । (सोम: अग्नी.षोम.प्रणयन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0