कौषीतकिब्राह्मण · अध्याय 10.1
वज्रो.वा.एष.यद्.यूपः ।
तद्.यद्.उपवसथे.यूपम्.उच्छ्रयन्ति ।
वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.अपघ्नन्ति । (पशु: यूप.मीमांसा)
स.न.अपनत.इव.स्यात् ।
अशनायतो.वा.एतद्.रूपम् ।
अभिनत.इव.उदरेण । (पशु: यूप.मीमांसा)
अथ.आहवनीयम्.पुनर्.अभ्यावृत्तः ।
तद्.वै.सुहितस्य.रूपम् ।
अनशनायुका.ह.अस्य.भार्या.भवन्ति.य.एवम्.रूपम्.यूपम्.कुरुते । (पशु: यूप.मीमांसा)
पालाशम्.ब्रह्म.वर्चस.कामः.कुर्वीत ।
बैल्वम्.अन्न.अद्य.कामः ।
खादिरम्.स्वर्ग.कामः ।
त्र्य्.अरत्निः.स्याल्.लोकानाम्.रूपेण । (पशु: यूप.मीमांसा)
चतुर्.अरत्निः.पशूनाम्.रूपेण ।
पञ्च.अरत्निः.पङ्क्त्यै.रूपेण ।
षड्.अरत्निर्.ऋतूनाम्.(?).रूपेण ।
सप्त.अरत्निश्.छन्दसाम्.रूपेण । (पशु: यूप.मीमांसा)
अष्ट.अरत्निर्.गायत्र्यै.रूपेण ।
नव.अरत्निर्.बृहत्यै.रूपेन ।
दश.अरत्निर्.विराजो.रूपेण ।
एकादश.अरत्निस्.त्रिष्टुभो.रूपेण । (पशु: यूप.मीमांसा)
द्वादश.अरत्निर्.जगत्यै.रूपेण । (पशु: यूप.मीमांसा)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0