कौषीतकिब्राह्मण · अध्याय 9.4
परि.त्वा.गिर्वणो.गिर.इति.परिवत्या.परिदधाति ।
अभिरूपा.अन्वाह । (सोम: हविर्.धान.प्रवर्तन)
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै ।
ता.वा.अष्टौ.भवन्ति । (सोम: हविर्.धान.प्रवर्तन)
एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत ।
तथो.एव.एतद्.यजमान.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुते । (सोम: हविर्.धान.प्रवर्तन)
त्रिः.प्रथमया.त्रिर्.उत्तमया.द्वादश.सम्पद्यन्ते ।
द्वादश.वै.मासाः.संवत्सरः । (सोम: हविर्.धान.प्रवर्तन)
संवत्सरस्य.एव.आप्त्यै ।
यद्.व्.एव.त्रिः.प्रथमाम्.त्रिर्.उत्तमाम् ।
यज्ञस्य.एव.तद्.बर्सौ.नह्यति.स्थेम्ने.अविस्रंसाय । (सोम: हविर्.धान.प्रवर्तन)
तद्.उ.होतारम्.अभिभाषन्ते.यथा.होतर्.अभयम्.असत्.तथा.कुर्व्.इति । (सोम: हविर्.धान.प्रवर्तन)
सम्प्रेषितः.पुरर्चः.प्रतिपदनाद्.दक्षिणस्य.पादस्य.प्रपदेन.प्रत्यञ्चंल्.लोकम्.अपास्यति । (सोम: हविर्.धान.प्रवर्तन)
अपेतो.जन्यम्.(?).भयम्.अन्य.जन्यम्.च.वृत्रहन् ।
अप.चक्रा.अवृत्सत.इति । (सोम: हविर्.धान.प्रवर्तन)
अत.उ.ह.चक्राणाम्.अभ्याचारः ।
तत.उ.ह.तस्मा.अर्धाय.अभयम्.भवति । (सोम: हविर्.धान.प्रवर्तन)
स.प्रान्.यन्.दक्षिणस्य.हविर्.धानस्य.उत्तरम्.वर्त्म.उपनिश्रयीत । (सोम: हविर्.धान.प्रवर्तन)
अयम्.वै.लोको.दक्षिणम्.हविर्.धानम् ।
प्रतिष्ठा.वा.अयंल्.लोकः । (सोम: हविर्.धान.प्रवर्तन)
प्रतिष्ठाया.अनुच्छिन्नो.अयानि.इति ।
यत्र.तिष्ठन्.परिदध्यात् । (सोम: हविर्.धान.प्रवर्तन)
च्योष्यत.इति.तथा.ह.स्यात् ।
तस्मात्.परिधाय.दक्षिणम्.बाहुम्.अन्वावृत्य.वाचम्.यमो.यथेतम्.(?).प्रत्येत्य । (सोम: हविर्.धान.प्रवर्तन)
यत्र.प्रथाअम्.तिष्ठन्न्.अन्ववोचत् ।
तत्.स्थित्वा.अत्र.च.अग्नि.प्रहरणे.च ।
अथ.यथा.आवसथम्.अभ्युपेयात् । (सोम: हविर्.धान.प्रवर्तन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0