कौषीतकिब्राह्मण · अध्याय 9.3
वाक्.च.वै.मनश्.च.हविर्.धाने ।
वाचि.च.वै.मनसि.च.इदम्.सर्वम्.हितम् । (सोम: हविर्.धान.प्रवर्तन)
तद्.यद्द्.हविर्.धाने.प्रवर्तयन्ति ।
सर्वेषाम्.एव.कामानाम्.आप्त्यै । (सोम: हविर्.धान.प्रवर्तन)
द्वे.हविर्.धाने.भवतः ।
छदिस्.तृतीयम्.अभिनिदधति ।
तैर्.यत्.किंच.त्रिविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.आप्नोति ।
प्रेताम्.यज्ञस्य.शम्भुवा.इति.प्रवतीम्.प्रवर्त्यमानाभ्याम्.अन्वाह । (सोम: हविर्.धान.प्रवर्तन)
द्यावा.नः.पृथिवी.इमम्.तयोर्.इद्.घृतवत्.पय.इति ।
आशीर्वती.पूर्वा । (सोम: हविर्.धान.प्रवर्तन)
अथो.द्विदेवत्या.द्वयोर्.हविर्.धानयोः ।
याम्.अध्वर्युर्.वर्त्मन्य्.आहुतिम्.जुहोति.ताम्.पूर्वया.अनुवदति । (सोम: हविर्.धान.प्रवर्तन)
यद्द्.हविर्धाने.प्रवर्तयन्ति.तद्.उत्तरया ।
यमे.इव.यतमाने.यदा.एतम्.इत्य्.अभिरूपया.हविर्.धाने.अनुस्तौति । (सोम: हविर्.धान.प्रवर्तन)
प्र.वाम्.भरन्.मानुषा.देवयन्त.इति ।
बहवो.ह्य्.एते.हरन्ति ।
अधि.द्वयोर्.अदधा.उक्थ्यम्.वचो.विश्वा.रूपाणि.प्रति.मुञ्चते.कविर्.इति । (सोम: हविर्.धान.प्रवर्तन)
यच्.छर्दिस्.तृतीयम्.अभिनिदधति.तत्.पूर्वया.अनुवदति ।
यद्द्.हविर्.धाने.परिश्रयन्ते.तद्.उत्तरया । (सोम: हविर्.धान.प्रवर्तन)
अतो.रराट्याम्.एव.उत्तरयाण्।
ते.यदा.मन्येत.अत्र.न.इङ्गयिष्यन्ति.इति । (सोम: हविर्.धान.प्रवर्तन)
यदा.एने.नभ्यस्थे.कुर्युः ।
अथा.वाम्.उपस्थम्.अद्रुहा.इति ।
यदा.वै.क्षेमो.अथ.उपस्थः । (सोम: हविर्.धान.प्रवर्तन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0