कौषीतकिब्राह्मण · अध्याय 9.2
सो.वा.एतद्.उपवसथे.अग्नौ.प्रणीयमान.आगच्छत् ।
ताम्.देवास्.तत्र.अभजन्त ।
तस्माद्.उ.तत्र.प्रथमत.एव.उच्चैर्.अनुब्रूयात् । (सोम: अग्नि.प्रणयन)
यथा.एनाम्.आगताम्.अनुबुध्येरन्.न.अभक्ताम्.यज्ञे ।
प्र.देवम्.देव्या.धिया.इति.प्रवन्तम्.तृचम्.प्रह्रियमाणाय.अन्वाह । (सोम: अग्नि.प्रणयन)
इडायास्.त्वा.पदे.वयम्.इति ।
इयम्.वा.इडा ।
अस्याम्.हि.इदम्.सर्वम्.ईट्टे । (सोम: अग्नि.प्रणयन)
जातवेदो.निधीमहि.इति.निहितवता.अर्धर्चेन.निधीयमानम्.अनुस्तौति । (सोम: अग्नि.प्रणयन)
अग्ने.विश्वेभिः.स्वनीक.देवैः.सीद.होतः.स्व.उ.लोके.चिकित्वान्.निहोता.होतृ.षदने.विदान.इति.सन्नवतीभिः.सन्नम्.अनुस्तौति । (सोम: अग्नि.प्रणयन)
त्वम्.दूतस्.त्वम्.उ.नः.परस्पा.इति.दूतवत्या.परिदधाति ।
अभिरूपा.अन्वाह । (सोम: अग्नि.प्रणयन)
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै ।
ता.वा.अष्टौ.भवन्ति ।
एताभिर्.वै.देवाः.सर्वा.अष्टीर्.आश्नुवत । (सोम: अग्नि.प्रणयन)
तथो.एव.एतद्.यजमान.एताभिर्.एव.सर्वा.अष्टीर्.अश्नुते ।
त्रिः.प्रथमया.त्रिर्.उत्तमया.द्वादश.सम्पद्यन्ते । (सोम: अग्नि.प्रणयन)
द्वादश.वै.मासाः.संवत्सरः ।
संवत्सरस्य.एव.आप्त्यै । (सोम: अग्नि.प्रणयन)
ताः.समनूक्ता.अष्टादश.गायत्र्यः.सम्पद्यन्ते ।
आग्नेयम्.एव.छन्दोभिः । (सोम: अग्नि.प्रणयन)
यस्य.ह.कस्य.च.षट्.समानस्य.(?).छन्दसस्.ता.गायत्रीम्.अभिसम्पद्यन्ते । (सोम: अग्नि.प्रणयन)
यस्य.सप्त.ता.उष्णिहम् ।
यस्य.अष्टौ.ता.अनुष्टुभम् ।
यस्य.नव.ता.बृहतीम् । (सोम: अग्नि.प्रणयन)
यस्य.दश.ताः.पङ्क्तिम् ।
यस्य.एकादश.तास्.त्रिष्टुभम् ।
यस्य.द्वादश.ता.जगतीम् । (सोम: अग्नि.प्रणयन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0