भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 9.1

9.1.1

ब्रह्म.वै.अग्निः ।

9.1.2

तद्.यद्.उपवसथे.अग्निम्.प्रणयति ।

9.1.3

ब्रह्मणा.एव.तद्.यजमानस्य.पाप्मानम्.अपघ्नन्ति । (सोम: अग्नि.प्रणयन)

9.1.4

पुरस्ताद्.आहवनीयेन ।

9.1.5

पश्चाद्.गार्हपत्येन ।

9.1.6

उत्तरत.आग्नीध्रियेण । (सोम: अग्नि.प्रणयन)

9.1.7

दक्षिणतो.मार्जालीयेन ।

9.1.8

ये.अन्तः.सदसम्.तैर्.मध्यतः ।

9.1.9

तस्माद्.उपवसथे.प्राञ्चम्.अग्निम्.प्रणयन्ति । (सोम: अग्नि.प्रणयन)

9.1.10

वि.धिष्ण्यान्.हरन्ति ।

9.1.11

यजमानस्य.एव.पाप्मनो.अपहत्यै ।

9.1.12

देवा.वै.दीक्षिष्यमाणा.वाचम्.अपासादयन्त । (सोम: अग्नि.प्रणयन)

9.1.15

बहु.त्वम्.उच्च.अवचम्.निगच्छसि ।

9.1.16

ताम्.देवास्.तत्र.न.अभाजन्त । (सोम: अग्नि.प्रणयन)

9.1.17

सा.प्रायणीये.ताम्.उ.तत्र.नो.भव ।

9.1.18

सा.क्रये.ताम्.उ.तत्र.नो.भव । (सोम: अग्नि.प्रणयन)

9.1.19

सा.आतिथ्ये.ताम्.उ.तर.नो.भव ।

9.1.20

सो.वा.एतद्.उपसदो.नाचन.(?).आगच्छन्.निर्विद्य.एव ।

9.1.21

तस्माद्.उ.तत्र.उपांशु.चरेयुः ।

9.1.22

यथा.एव.एव.मिथः.संशृण्वीरन् । (सोम: अग्नि.प्रणयन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc