कौषीतकिब्राह्मण · अध्याय 8.12
द्वादशो.ह.वा.अन्तर्.उष्यात्.स्वर्गो.लोकः ।
स.यः.सकृद्.अभ्युन्नयते । (सोम: उपसदह्)
यथा.एक.रात्रम्.सार्थान्.प्रोषितान्.अनुप्रेयाद्.एवम्.तत् ।
यो.द्वितीयम् । (सोम: उपसदह्)
यथा.द्वि.रात्रम्.एवम्.तत् ।
हीयते.तृतीयेन ।
स्वर्गांल्.लोकान्.न.अन्वश्नुते ।
अप्य्.अनुगच्छेद्.इति.ह.स्म.आह.पैङ्ग्यः । (सोम: उपसदह्)
न.त्व्.एव.अभ्युन्नयेत ।
यत्र.एव.कामयेत ।
तत्.पूर्वो.गत्वा.स्वर्गस्य.एव.लोकस्य.अवस्येद्.इति । (सोम: उपसदह्)
समाप्तिः.श्रेयसी.इति.ह.स्म.आह.कषीतकिः ।
संराजो.भक्षो.अस्मै.दध्य्.आनयेयुर्.न.व्रते । (सोम: उपसदह्)
सोमो.वै.दधि ।
अनन्तर्हितौ.ह.अस्य.भक्षो.भवति.समाप्नोति । (सोम: उपसदह्)
उत.यदि.संक्रीणीयुः ।
या.मध्यम.उपसत् ।
तया.द्व्यहम्.अन्यतरे.चरेयुः । (सोम: उपसदह्)
आवपनम्.हि.सा ।
इदम्.अन्तरिक्ष.लोक.आयतनेन ।
अथ.असमरम्.अभ्युदैत्य्.अथ.असमरम्.अभ्युदैति । (सोम: उपसदह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0