कौषीतकिब्राह्मण · अध्याय 8.9
उपसदः ।
असुरा.एष.लोकेषु.पुरो.अकुर्वत ।
अयस्मयीम्.अस्मिन् । (सोम: उपसदह्)
रजताम्.अन्तरिक्ष.लोके ।
हरिणीम्.हादो.दिवि.चक्रिरे ।
ते.देवाः.परिश्रितेष्व्.एषु.लोकेष्व्.एतम्.पञ्चदशम्.वज्रम्.अपश्यन् । (सोम: उपसदह्)
तिस्रः.सामिधेन्यः.समनूक्ता.नव.सम्पद्यन्ते ।
षड्.याज्या.पुरोनुवाक्याः । (सोम: उपसदह्)
ताः.पञ्चदश ।
एतेन.वै.देवाः.पञ्चदशेन.वज्रेण.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (सोम: उपसदह्)
तथो.एव.एतद्.यजमान.एतेन.एव.पञ्चदशेन.वज्रेण.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदते । (सोम: उपसदह्)
उपसद्याय.मीढुषे.इत्य्.एतम्.तृचम्.पूर्व.अह्णे.अनुब्रूयात् ।
उपसदो.ह्य्.एताः । (सोम: उपसदह्)
तद्.वै.कर्म.समृद्धम्.यत्.प्रथमेन.अभिव्याह्रियते ।
उपसद्यम्.इव.वा.एतद्.अहर्.अमुना.आदित्येन.भवति.इति । (सोम: उपसदह्)
इमाम्.मे.अग्ने.समिधम्.इत्य्.अपर.अह्णे.तद्.रात्रे.रूपम् ।
समिद्धम्.इव.वा.इमम्.अग्निम्.सायम्.पर्यासत.इति । (सोम: उपसदह्)
अथ.द्वितीये.अहनि ।
इमाम्.मे.अग्ने.समिधम्.इति.पूर्व.अह्णे.तद्.अह्नो.रूपम् ।
समिद्धम्.इव.वा.एतद्.अहर्.अमुना.आदित्येन.भवति.इति । (सोम: उपसदह्)
उपसद्याय.मीढुष.इत्य्.अपर.अह्णे.तद्.रात्रे.रूपम् ।
उपसद्यम्.इव.वा.इमम्.अग्निम्.सायम्.पर्यासत.इति । (सोम: उपसदह्)
ते.वा.उभे.एव.रूपे.यज्.ज्ञायेते ।
तस्माद्.अहर्.अहर्.विपर्यासम्.अनुब्रूयात् । (सोम: उपसदह्)
उभे.रूपे.कामा.उपाप्ताव्.असताम्.इति । (सोम: उपसदह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0