कौषीतकिब्राह्मण · अध्याय 8.8
त्रयस्.त्रिंशद्.उत्तराः ।
त्रयस्.त्रिंशद्.वै.सर्वा.देवताः ।
ता.एव.एतद्.उद्यन्तुम्.अर्हन्ति । (सोम: प्रवर्ग्य)
ताभ्यो.वै.तत्.समुन्नीतम् ।
अभिरूपा.दोहनीया.अभिष्टौति ।
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (सोम: प्रवर्ग्य)
आ.सुते.सिञ्चत.श्रियम्.आ.नूनम्.अश्विनोर्.ऋषिर्.इत्य्.आसिक्तवत्याव्.अभिरूपे.अभिष्टौति । (सोम: प्रवर्ग्य)
उद्.उ.ष्य.देवः.सविता.हिरण्यया.इत्य्.उद्यम्यमान.उद्यतवतीम्.अभिरूपाम्.अभिष्टौति । (सोम: प्रवर्ग्य)
प्रैतु.ब्रह्मणस्पतिर्.इति.प्रव्रजत्सु.प्रवतीम्.ब्राह्मणस्पत्याम्.अभिरूपाम्.अभिष्टौति । (सोम: प्रवर्ग्य)
नाके.सुपर्णम्.उप.यत्.पतन्तम्.इति.व्रजत्सु.पतन्तम्.इत्य्.अभिरूपाम्.अभिष्टौति । (सोम: प्रवर्ग्य)
द्वाभ्याम्.यजेत् ।
द्वन्द्वम्.वै.वीर्यम्.सवीर्यतायै ।
त्रिष्टुब्वतीभ्याम्.पूर्व.अह्णे । (सोम: प्रवर्ग्य)
त्रैष्टुभो.ह्य्.एषः ।
त्रींल्.लोकाम्.स्तब्ध्वा.तिष्ठति ।
जगद्वतीभ्याम्.अपर.अह्णे । (सोम: प्रवर्ग्य)
जागतो.ह्य्.एषः ।
एतम्.उ.ह.विशन्तम्.जगद्.अनु.सर्वम्.विशति । (सोम: प्रवर्ग्य)
विपर्यस्य.दाशतयीभ्याम्.वषट्.कुर्याद्.इति.ह.एक.आहुः । (सोम: प्रवर्ग्य)
यथा.आम्नातम्.इति.त्व्.एव.स्थितम् ।
अथ.उत्तरा.अभिरूपा.अभिष्टौति । (सोम: प्रवर्ग्य)
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै ।
हविर्.हविष्मो.महि.सद्म.दैव्यम्.इति.पुरा.आहुतेः.प्रापणात् । (सोम: प्रवर्ग्य)
पुनर्.हविषम्.एव.एनम्.तद्.अयात.यामानम्.करोति ।
सूयवसाद्.भगवती.हि.भूया.इत्य्.आशीर्वत्या.परिदधाति । (सोम: प्रवर्ग्य)
पशुभ्य.एव.तद्.आशिषम्.वदते ।
तथा.ह.यजमानात्पशवो.अनुत्क्रामुका.भवन्ति । (सोम: प्रवर्ग्य)
अथ.वै.सुते.प्रवर्ग्ये.इत्य्.आचक्षते.स्तुते.बहिष्.पवमाने ।
तद्.अश्विनौ.देवा.उपाह्वयन्त । (सोम: प्रवर्ग्य)
एतस्मिन्.काले.आग्नीध्रिये.प्रवृञ्ज्युः ।
तद्.यथा.एव.अद.उपसत्सु । (सोम: प्रवर्ग्य)
एवम्.एव.अप्य्.अत्र.स्तुत्यायाम् ।
अनवानम्.एव.उपचारः ।
तद्.यदा.कर्म.अपवृज्येत । (सोम: प्रवर्ग्य)
अथ.पशु.कर्म.तायते ।
स.एष.महा.वीरो.मध्यंदिन.उत्सर्गः । (सोम: प्रवर्ग्य)
तद्.यद्.एतेन.मध्यंदिने.प्रचरन्ति ।
असौ.वै.महा.वीरो.यो.असौ.तपति । (सोम: प्रवर्ग्य)
एतम्.एव.तत्.प्रीणाति ।
एतस्य.एव.तद्.रूपम्.क्रियते । (सोम: प्रवर्ग्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0