कौषीतकिब्राह्मण · अध्याय 8.10
अनवानम्.अनुब्रूयात्.प्राणानाम्.संतत्यै ।
संतता.इव.हि.इमे.प्राणाः । (सोम: उपसदह्)
त्रिस्.त्रिर्.एक.एकाम्.अन्वाह ।
त्रयो.वा.इमे.लोकाः ।
इमान्.एव.तल्.लोकान्.आप्नोति । (सोम: उपसदह्)
ताः.समनूक्ता.नव.सम्पद्यन्ते ।
षड्.वा.ऋतवस्.त्रय.इमे.लोकाः । (सोम: उपसदह्)
एतद्.एव.तद्.अभिसम्पद्यन्ते ।
न.एतम्.निगदम्.ब्रूयाद्.य.एष.सामिधेनीषु । (सोम: उपसदह्)
उत्सृज्यन्ते.ह.निगदाः ।
जामि.ह.स्याद्.य.एतम्.निगदम्.ब्रूयात् । (सोम: उपसदह्)
न.आवाहयेच्.चन.इति.ह.एक.आहुः ।
किम्.उ.देवताम्.अन्वावाह्य.जयेद्.इति । (सोम: उपसदह्)
ऋच.एव.आवाहयेत् ।
अग्निम्.आवह.सोमम्.आवह.विष्णुम्.आवह.इति । (सोम: उपसदह्)
ता.वै.तिस्रो.देवता.यजति ।
त्रयो.वा.इमे.लोकाः ।
इमान्.एव.तल्.लोकान्.ज्योतिष्मतः.करोति । (सोम: उपसदह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0