कौषीतकिब्राह्मण · अध्याय 8.7
गणानाम्.त्वा.गण.पतिम्.हवामह.इति.ब्राह्मणस्पत्या.अभिरूपा.अभिष्टौति ।
शिरो.वा.एतत् । (सोम: प्रवर्ग्य)
ब्रह्म.वै.ब्रह्मणस्पतिः ।
ब्रह्मणा.एव.तत्.शिरः.समर्धयति ।
स.यत्र.उपाधिगच्छेद्.बृहद्.वदेम.विदथे.सुवीरा.इति । (सोम: प्रवर्ग्य)
तद्.वीर.कामायै.वीरम्.ध्यायात् ।
लभते.ह.वीरम् ।
का.राधद्द्.होत्रा.अश्विना.वाम्.इति.नव.अकुध्रीच्यः । (सोम: प्रवर्ग्य)
गायत्रच्.छन्दस.इव.वा.अकूध्रीच्यः ।
गायत्र.उ.वै.प्राणः । (सोम: प्रवर्ग्य)
प्राणो.वै.अकूध्रीच्यः ।
आ.नो.विश्वाभिर्.ऊतिभिर्.इत्य्.आनुष्टुभम्.तृचम्.सा.वाक् । (सोम: प्रवर्ग्य)
विष्णुर्.योनिम्.कल्पयत्व्.इत्य्.एतद्.अस्य.आयतने.प्रजा.कामस्य.अभिष्टुयात् । (सोम: प्रवर्ग्य)
अथो.उभे.असम्पन्न.कारी ।
प्रातर्.यावाणा.प्रथमा.यजध्वम्.इति.पूर्व.अह्णे.सूक्तम् । (सोम: प्रवर्ग्य)
आ.भात्य्.अग्निर्.उषसाम्.अनीकम्.इत्य्.अपर.अह्णे ।
त्रैष्टुभे.पञ्चर्चे.तच्.चक्षुः । (सोम: प्रवर्ग्य)
इडे.द्यावा.पृथिवी.पूर्व.चित्तय.इति.जागतम्.पञ्चविंशम्.तत्.श्रोत्रम् । (सोम: प्रवर्ग्य)
शिरो.वा.एतत् ।
तद्.वै.शिरः.समृद्धम्.यस्मिन्.प्राणो.वाक्.चक्षुः.श्रोत्रम्.इति । (सोम: प्रवर्ग्य)
तान्.एव.अस्मिंस्.तद्.दधाति ।
रुचितो.घर्म.इत्य्.उक्ते.अरूरुचद्.उषसः.पृश्निर्.अग्निय.इति.रुचितवतीम्.अभिरूपाम्.अभिष्टौति । (सोम: प्रवर्ग्य)
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै ।
ता.एक.शत.ऋचो.भवन्ति.तासाम्.उक्तम्.ब्राह्मणम् । (सोम: प्रवर्ग्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0