कौषीतकिब्राह्मण · अध्याय 8.6
अथो.यान्.एव.अध्वर्युः.शकलान्.परिचिनोति.तान्.पूर्वया.अनुवदति ।
यम्.उत्तमम्.अभि.निदधाति.तम्.उत्तरया । (सोम: प्रवर्ग्य)
शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यद्.अर्हन्.बिभर्ति.सायकानि.धन्वा.इति.पौष्णीम्.च.रौद्रीम्.च.अभिरूपे.अभिष्टौति । (सोम: प्रवर्ग्य)
पौष्णम्.च.एव.रौद्रम्.च.स्वाहा.कारम्.एताभ्याम्.अनुवदति ।
अथो.याव्.एव.अध्वर्युः.सुवर्ण.रजतौ.हिरण्य.शकलौ.करोति.ताव्.एव.एताभ्याम्.अनुवदति । (सोम: प्रवर्ग्य)
पतङ्गम्.अक्तम्.असुरस्य.मायया.इति ।
प्राणो.वै.पतङ्गः ।
वायुर्.वै.प्राणः ।
वायव्यम्.एव.स्वाहा.कारम्.एताभिर्.अनुवदति । (सोम: प्रवर्ग्य)
अपश्यम्.त्वा.मनसा.चेकितानम्.इत्य्.एतद्.अस्य.आयतने.प्रजा.कामस्य.अहिष्टुयात् ।
अथो.उभे.असम्पन्न.कारी । (सोम: प्रवर्ग्य)
स्रक्वे.द्रप्सस्य.धमतः.समस्वरन्न्.इति.सर्वम् ।
पवित्रम्.ते.विततम्.ब्रह्मणस्पत.इति.द्वे ।
वि.यत्.पवित्रम्.धिषणा.अतन्वत.इत्य्.एका । (सोम: प्रवर्ग्य)
ता.द्वादश.पावमान्यः ।
सौम्यम्.एव.स्वाहा.कारम्.एताभिर्.अनुवदति ।
अयम्.वेनश्.चोदयत्.पृश्नि.गर्भा.इति । (सोम: प्रवर्ग्य)
इन्द्रो.वै.वेनः ।
ऐन्द्रम्.एव.स्वाहा.कारम्.एताभिर्.अनुवदति । (सोम: प्रवर्ग्य)
तस्य.एकाम्.उत्सृजति.नाके.सुपर्णम्.उप.यत्.पतन्तम्.इति ।
सो.अयम्.आत्मनो.अतीकाशः । (सोम: प्रवर्ग्य)
ताम्.उत्तरासु.करोति ।
तेन.उ.सा.आनन्तरिता.भवति ।
उभयतो.वेनम्.पाप.उक्तस्य.(?).पावमानीर्.अभिष्टुयात् । (सोम: प्रवर्ग्य)
आत्मा.वै.वेनः ।
पवित्रम्.पावमान्यः ।
पुनात्य्.एव.एनम्.तत् । (सोम: प्रवर्ग्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0