कौषीतकिब्राह्मण · अध्याय 8.5
अनवानम्.अभिष्टुयात्.प्राणानाम्.संतत्यै ।
संतता.इव.हि.इमे.प्राणाः ।
उच्चैर्.निरुक्तम्.अभिष्टुयात् । (सोम: प्रवर्ग्य)
प्राणा.वै.स्तुभः ।
निरुक्तो.ह्य्.एषः ।
वाग्.देवत्यो.ह्य्.एषः ।
सावित्रीः.प्रथमा.अभिष्टौति । (सोम: प्रवर्ग्य)
सवितृ.प्रसूततायै ।
सवितृ.प्रसूतस्य.ह.वै.न.काचन.रिष्टिर्.भवत्य्.अरिष्ट्यै । (सोम: प्रवर्ग्य)
ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्ताद्.इति ।
अदो.वै.ब्रह्म.जज्ञानम्.प्रथमम्.पुरस्ताद् । (सोम: प्रवर्ग्य)
यत्र.असौ.तपति ।
तद्.एव.तद्.यजमानम्.दधाति ।
अञ्जन्ति.यम्.प्रथयन्तो.न.विप्राः.संसीदस्व.महान्.असि.इत्य्.अक्तवतीम्.च.सन्नवतीम्.च.अभिरूपे.अभिष्टौति । (सोम: प्रवर्ग्य)
भवा.नो.अग्ने.सुमना.उपेतौ.तपो.ष्व्.अग्ने.अन्तराम्.अमित्रान्.यो.नः.सनुत्यो.अभिदासद्.अग्न.इति.तिस्रस्.तपस्वतीर्.अभिरूपा.अभिष्टौति । (सोम: प्रवर्ग्य)
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै ।
कृणुष्व.पाजः.प्रसितिम्.न.पृथ्वीम्.इति.राक्षोघ्नीर्.अभिष्टौति.राक्षसाम्.अपहत्यै । (सोम: प्रवर्ग्य)
अग्निर्.वै.रक्षसाम्.अपहन्ता ।
ता.वै.पञ्च.भवन्ति.दिशाम्.रूपेण । (सोम: प्रवर्ग्य)
दिग्भ्य.एव.एतानि.सम्निर्हन्ति ।
अथो.यान्.एव.अध्वर्युः.प्रादेशान्.अभिमिमीते.तान्.एव.एताभिर्.अनुवदति । (सोम: प्रवर्ग्य)
परि.त्वा.गिर्वणो.गिरो.अधि.द्वयोर्.अदधा.उक्थ्यम्.वच.इत्य्.ऐन्द्र्याव्.अभिरूपे.अभिष्टौति । (सोम: प्रवर्ग्य)
ऐन्द्रम्.एव.स्वाहा.कारम्.एताभ्याम्.अनुवदति । (सोम: प्रवर्ग्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0