कौषीतकिब्राह्मण · अध्याय 8.4
शिरो.वा.एतद्.यज्ञस्य.यन्.महा.वीरः ।
तन्.न.प्रथम.यज्ञे.प्रवृञ्ज्यात् ।
उपनामुक.उ.एव.एनम्.उत्तरो.यज्ञो.भवति.यः.प्र्थम.यज्ञे.न.प्रवृणक्ति । (सोम: प्रवर्ग्य)
कामम्.तु.यो.अनूचानः.श्रोत्रियः.स्यात्.तस्य.प्रवृञ्ज्यात् ।
आत्मा.वै.स.यज्ञस्य । (सोम: प्रवर्ग्य)
आत्मना.एव.तद्.यज्ञम्.समर्धयति ।
तद्.असौ.वै.महा.वीरो.यो.असौ.तपति । (सोम: प्रवर्ग्य)
एतम्.एव.तत्.प्रीणाति ।
तम्.एक.शतेन.अभिष्टुयात् ।
शत.योजने.ह.वा.एष.हितस्.तपति । (सोम: प्रवर्ग्य)
स.शतेन.एव.एनम्.शत.योजनम्.अध्वानम्.समश्नुते ।
अथ.या.एक.शततमी.स.यजमान.लोकः । (सोम: प्रवर्ग्य)
तम्.एतम्.आत्मानम्.यजमा.नो.अभिसम्भवति ।
यम्.एतम्.आदित्ये.पुरुषम्.वेदयन्ते । (सोम: प्रवर्ग्य)
स.इन्द्रः.स.प्रजापतिस्.तद्.ब्रह्म ।
तद्.अत्र.एव.यजमानः.सर्वासाम्.देवतानाम्.सलोकताम्.सायुज्यम्.आप्नोति । (सोम: प्रवर्ग्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0