कौषीतकिब्राह्मण · अध्याय 8.3
होतारम्.चित्र.रथम्.अध्वरस्य.यस्.त्वा.स्वश्वः.सुहिरण्यो.अग्न.इति.सम्याज्ये.अतिथिमत्यौ.रथवत्यौ.त्रिष्टुभाव्.आग्नेय्यौ । (सोम: अअतिथ्य.इष्टि)
तद्.यथा.चतुः.समृद्धम्.एवम्.त ।
उपमानुक.उ.एव.एनम्.रथो.भवति.य.एते.कुरुते । (सोम: अअतिथ्य.इष्टि)
इडा.अन्तम्.भवति ।
अभिक्रान्त्यै.तद्.रूपम् ।
तद्.यथा.उपप्रयाय.स्वर्गस्य.लोकस्य.नेदीयस्तायाम्.वसेद्.एवम्.तत् । (सोम: अअतिथ्य.इष्टि)
उपांशु.हविषि.एता.इष्टयो.भवन्ति.दीक्षणीया.प्रायणीया.आतिथ्य्य.उपसदः । (सोम: अअतिथ्य.इष्टि)
रेतः.सिक्तिर्.वा.एता.इष्टयः ।
उपांशु.वै.रेतः.सिच्यते ।
उत्सृजन्तः.कर्माणि.यन्ति । (सोम: अअतिथ्य.इष्टि)
पत्नी.सम्याज.अन्ता.दीक्षणीया ।
शम्य्वन्ता.प्रायणीया ।
इडा.अन्ता.आतिथ्या । (सोम: अअतिथ्य.इष्टि)
देवता.उपसत्सु.प्रतियजति ।
उत्सर्गम्.वै.प्रजापतिर्.एतैर्.कर्मभिः.स्वर्गंल्.लोकम्.ऐत् । (सोम: अअतिथ्य.इष्टि)
तथो.एव.एतद्.यजमान.उत्सर्गम्.एव.एतैः.कर्मभिः.स्वर्गंल्.लोकम्.एति । (सोम: अअतिथ्य.इष्टि)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0