भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 8.2

8.2.1

एतया.न्व्.अत्र.च.चातुर्मास्येषु.च ।

8.2.2

त्रिः.प्रथमया.त्रिर्.उत्तमया.षोडश.सम्पद्यन्ते । (सोम: अग्नि.मन्थन)

8.2.3

षोडल.कलम्.वा.इदम्.सर्वम् ।

8.2.4

अस्य.एव.सर्वस्य.आप्त्यै ।

8.2.5

अथ.यत्र.पशुर्.आलभ्यते । (सोम: अग्नि.मन्थन)

8.2.6

तद्.एताम्.पराचीम्.अनूच्य.यज्ञेन.यज्ञम्.अयजन्त.देवा.इति.त्रिष्टुभा.परिदधाति । (सोम: अग्नि.मन्थन)

8.2.7

त्रैष्टुभाः.पशवः.पशूनाम्.एव.आप्त्यै ।

8.2.8

त्रिः.प्रथमया.त्रिर्.उत्तमया.सप्तदश.सम्पद्यन्ते । (सोम: अग्नि.मन्थन)

8.2.9

सप्तदशो.वै.प्रजापतिः ।

8.2.10

एतद्.वा.आर्ध्नुकम्.धर्म.यत्.प्रजापति.सम्मितम् । (सोम: अग्नि.मन्थन)

8.2.12

सप्तदश.सामिधेनीर्.अन्वाह ।

8.2.12

सप्तदशो.वै.प्रजापतिः ।

8.2.13

एतद्.वा.आर्ध्नुकम्.कर्म.यत्.प्रजापति.सम्मितम् । (सोम: अअतिथ्य.इष्टि)

8.2.14

वार्त्रघ्नाव्.आज्य.भागौ.भवतः.पाप्मन.एव.वधाय ।

8.2.15

अथो.ह.अस्य.पौर्णमासात्.तन्त्राद्.अनितम्.भवति । (सोम: अअतिथ्य.इष्टि)

8.2.16

अतिथिमन्तौ.ह.एके.कुर्वन्ति ।

8.2.17

वार्त्रघ्नौ.त्व्.एव.स्थितौ ।

8.2.18

ऋग्.याज्यौ.स्याताम्.इति.ह.एक.आहुः । (सोम: अअतिथ्य.इष्टि)

8.2.19

ऋग्.याज्या.वा.एता.देवता.उपसत्सु.भवन्ति.इति.वदन्तः ।

8.2.20

जुषाण.याज्यौ.त्व्.एव.स्थितौ । (सोम: अअतिथ्य.इष्टि)

8.2.21

सोमम्.सन्तम्.विष्णुर्.इति.यजति ।

8.2.22

तद्.यद्.एव.इदम्.क्रीतो.विशति.इव ।

8.2.23

तद्.उ.ह.एव.अस्य.वैष्णवम्.रूपम् ।

8.2.24

यद्.व्.एव.सोमम्.सन्तम्.विष्णुर्.इति.यजति । (सोम: अअतिथ्य.इष्टि)

8.2.25

अत्ता.एव.एतेन.नाम्ना.यद्.विष्णुर्.इति ।

8.2.26

आद्यो.अमुना.यत्.सोम.इति । (सोम: अअतिथ्य.इष्टि)

8.2.27

तस्मात्.सोम.इति.वदन्तो.जुह्वत्य्.एवम्.भक्षयन्ति ।

8.2.28

त्रिष्टुभौ.हविषो.याज्या.पुरोनुवाक्ये ।

8.2.29

बलम्.वै.वीर्यम्.त्रिष्टुप् ।

8.2.30

बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम: अअतिथ्य.इष्टि)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc