भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 8.1

8.1.1

आतिथ्येन.ह.वै.देवा.द्विपदश्.च.चतुष्पतश्.च.पशुना.आपुः ।

8.1.2

तथो.एव.एतद्.यजमाय.आतिथ्येन.एव.द्विपदश्.च.चतुष्पदश्.च.पशुना.आप्नोति । (सोम: अग्नि.मन्थन)

8.1.3

आसन्ने.हविष्य.आतिथ्ये.अग्निम्.मन्थन्ति ।

8.1.4

शिरो.वा.एतद्.यज्ञस्य.यद्.आतिथ्यम् । (सोम: अग्नि.मन्थन)

8.1.5

प्राणो.अग्निः ।

8.1.6

शीर्षंस्.तत्.प्राणम्.दधाति ।

8.1.7

द्वादश.अग्नि.मन्थनीया.अन्वाह । (सोम: अग्नि.मन्थन)

8.1.8

द्वादश.वै.मासाः.संवत्सरः ।

8.1.9

संवत्सरस्य.एव.आप्त्यै ।

8.1.10

अभि.त्वा.देव.सवितर्.इति.सावित्रीम्.प्रथमाम्.अन्वाह । (सोम: अग्नि.मन्थन)

8.1.11

सवितृ.प्रसूततायै ।

8.1.12

सवितृ.प्र्सूतस्य.ह.वै.न.काचन.रिष्टिर्.भवत्य्.अरिष्ट्यै । (सोम: अग्नि.मन्थन)

8.1.13

मही.द्यौः.पृथिवी.च.न.इति.द्यावा.पृथिवीयाम्.अन्वाह ।

8.1.14

प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव । (सोम: अग्नि.मन्थन)

8.1.15

त्वाम्.अग्ने.पुष्कराद्.अधि.इति.मथितवन्तम्.तृचम्.मथ्यमानाय.अन्वाह । (सोम: अग्नि.मन्थन)

8.1.16

उत.ब्रुवन्तु.जन्तव.इति.जातवतीम्.जाताय ।

8.1.17

आ.यम्.हस्ते.न.खादिनम्.इति.हस्तवतीम्.हस्तेन.धार्यमाणाय । (सोम: अग्नि.मन्थन)

8.1.18

प्र.देवम्.देव.वीतय.इति.प्रवतीम्.प्रह्रियमाणाय ।

8.1.19

आ.जातम्.जात.वेदसि.इत्य्.आवतीम्.आहूयमानाय । (सोम: अग्नि.मन्थन)

8.1.20

अग्निना.अग्निः.समिध्यते.त्वम्.ह्य्.अग्ने.अग्निना.इति.समिद्धवत्यौ.समिध्यमानाय । (सोम: अग्नि.मन्थन)

8.1.21

तम्.मर्जयन्त.सुक्रतुम्.इति.परिदधाति.स्वेषु.क्षयेषु.वाजिनम्.इत्य्.अन्तवत्या । (सोम: अग्नि.मन्थन)

8.1.22

अन्तो.वै.क्षयः ।

8.1.23

अन्तः.परिधानीया ।

8.1.24

अन्ते.अन्तम्.दधाति । (सोम: अग्नि.मन्थन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc