भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 8.11

8.11.1

गायत्र्याव्.आग्नेय्यौ ।

8.11.2

गायत्रो.अयंल्.लोकः ।

8.11.3

तद्.इमंल्.लोकम्.आप्नोति । (सोम: उपसदह्)

8.11.4

त्रिष्टुभौ.सौम्यौ ।

8.11.5

त्रैष्टुभो.अन्तरिक्ष.लोकः ।

8.11.6

तद्.अन्तरिक्ष.लोकम्.आप्नोति । (सोम: उपसदह्)

8.11.7

जगत्यौ.वैष्णव्यौ ।

8.11.8

जागतो.असौ.लोकः ।

8.11.9

तद्.अमुंल्.लोकम्.आप्नोति । (सोम: उपसदह्)

8.11.10

ता.वै.विपर्यस्यति ।

8.11.11

याः.पूर्व.अह्णे.पुरोनुवाक्यास्.ता.अपर.अह्णे.याज्याः.करोति । (सोम: उपसदह्)

8.11.12

या.याज्यास्.ताः.पुरोनुवाक्याः ।

8.11.13

अयात.यामतायै ।

8.11.14

वषट्.कारेण.ह.वा.ऋग्.यात.यामा.भवति.समाने.अहन् । (सोम: उपसदह्)

8.11.15

अयात.यामाभिर्.मे.वषट्कृतम्.असद्.इति ।

8.11.16

यद्.व्.एव.विपर्यस्यति.ग्रीवाणाम्.स्थेम्ने ।

8.11.17

तस्माद्द्.ह.आसाम्.ग्रीवाणाम्.व्यतिषक्तानि.इव.पर्वाणि.भवन्ति । (सोम: उपसदह्)

8.11.18

आज्य.हविषो.देवताः ।

8.11.19

पयो.व्रतो.यजमानः ।

8.11.20

तत्.सलोम ।

8.11.21

ताः.परोवरीयसीर्.अभ्युपेयात्.त्रीन्.अग्रे.स्तनान्.अथ.द्वाव्.अथ.एकम् । (सोम: उपसदह्)

8.11.22

परस्पर.एव.तल्.लोकान्.वरीयसः.कुरुते ।

8.11.23

न.अभ्युन्नयेत ।

8.11.24

स्वर्गम्.ह.वा.एते.लोकम्.अभिप्रयन्ति.य.उपसद.उपयन्ति । (सोम: उपसदह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc