कौषीतकिब्राह्मण · अध्याय 7.12
तम्.वै.चतुर्भिः.क्रीणाति.गवा.चन्द्रेण.वस्त्रेण.छागया ।
आ.चतुरम्.वै.द्वन्द्वम्.मिथुनम्.प्रजननम्.प्रजात्यै । (सोम: सोम.क्रय)
तद्.असौ.वै.सोमो.राजा.विचक्षणश्.चन्द्रमाः । (सोम: सोम.क्रय)
स.इमम्.क्रीतम्.एव.प्रविशति ।
तद्.यत्.सोमम्.राजानम्.क्रीणाति । (सोम: सोम.क्रय)
असौ.वै.सोमो.राजा.विचक्षणश्.चन्द्रमा.अभिषुतो.असद्.इति ।
तस्मै.क्रीताय.नव.अन्वाह । (सोम: सोम.क्रय)
नव.इमे.प्राणाः ।
प्राणान्.एव.तद्.यजमाने.दधाति ।
सर्वायुत्वाय.अस्मिंल्.लोके । (सोम: सोम.क्रय)
अमृतत्वाय.अमुष्मिन् ।
भद्राद्.अभि.श्रेयः.प्रेति.इति.प्रवतीम्.प्रवत्यमानाय.अन्वाह । (सोम: सोम.क्रय)
बृहस्पतिः.पुर.एता.ते.अस्त्व्.इति ।
ब्रह्म.वै.बृहस्पतिः ।
ब्रह्म.यशसस्य.अवरुद्ध्यै । (सोम: सोम.क्रय)
इमाम्.धियम्.शिक्षमाणस्य.देव.वनेषु.व्यन्तरिक्षम्.ततान.इति.त्रिष्टुभौ.वारुण्याव्.अन्वाह । (सोम: सोम.क्रय)
क्षत्रम्.वै.त्रिष्टुप् ।
क्षत्रम्.वरुणः ।
क्षत्र.यशसस्य.अवरुद्ध्यै । (सोम: सोम.क्रय)
सोम.यास्.ते.मयो.भुव.इति.चतस्रो.गायत्रीः.सौमीर्.अन्वाह ।
ब्रह्म.वै.गायत्री । (सोम: सोम.क्रय)
क्षत्रम्.सोमः ।
ब्रह्म.यशसस्य.च.क्षत्र.यशसस्य.च.अवरुद्ध्यै । (सोम: सोम.क्रय)
तासाम्.उत्तमाया.अर्धर्चम्.उक्त्वा.उपरमति ।
अमृतम्.वा.ऋक् ।
अमृतम्.तत्.प्रविशति । (सोम: सोम.क्रय)
अथो.ब्रह्म.वा.ऋक् ।
उभयत.एव.तद्.ब्रह्म.अर्धर्चौ.वर्म.कुरुते । (सोम: सोम.क्रय)
तद्.यत्र.क्वच.अर्धर्चेन.उपरमेत् ।
एतद्.ब्राह्मणम्.एव.तत् ।
या.ते.धामानि.हविषा.यजन्ति.इति.प्रवतीम्.प्रपाद्यमानाय.अन्वाह । (सोम: सोम.क्रय)
आगन्.देव.ऋतुभिर्.वर्धतु.क्षयम्.इत्य्.आगतवत्या.ऋतुमत्या.परिदधाति । (सोम: सोम.क्रय)
संवत्सरो.वै.सोमो.राजा.इति.ह.स्म.आह.कौषीतकिः ।
सो.अभ्यागच्छन्न्.ऋतुभिर्.एव.सह.अभ्येति.इति । (सोम: सोम.क्रय)
अभिरूपा.अन्वाह ।
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (सोम: सोम.क्रय)
ता.वै.नव.अन्वाह ।
तासाम्.उक्तम्.ब्राह्मणम् ।
त्रिः.प्रथमया.त्रिर्.उत्तमया.त्रयोदश.सम्पद्यन्ते । (सोम: सोम.क्रय)
द्वादश.वै.मासाः.संवत्सरः ।
संवत्सरस्य.एव.आप्त्यै ।
अस्ति.त्रयोदशो.मासः ।
उपचरो.विज्ञात.इव.तस्य.आप्त्यै.तस्य.आप्त्यै । (सोम: सोम.क्रय)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0