कौषीतकिब्राह्मण · अध्याय 7.9
शम्युवन्तम्.प्रायणीयम्.शम्य्वन्तम्.उदयनीयम् ।
पथ्याम्.स्वस्तिम्.प्रथमाम्.प्रायणीये.यजति । (सोम: प्रायणीयेष्टि)
अथ.अग्निम्.अथ.सोमम्.अथ.सवितारम्.अथ.अदितिम् ।
स्वर्गम्.वै.लोकम्.प्रायणीयेन.अभिप्रैति । (सोम: प्रायणीयेष्टि)
तद्.यत्.पुरस्तात्.पथ्याम्.स्वस्तिम्.यजति ।
स्वस्त्ययनम्.एव.तत्.कुरुते.स्वर्गस्य.लोकस्य.समष्ट्यै । (सोम: प्रायणीयेष्टि)
अग्निम्.पथमम्.उदयनीये.यजति ।
अथ.सोमम्.अथ.सवितारम्.अथ.पथ्याम्.स्वस्तिम्.अथ.अदितिम् । (सोम: प्रायणीयेष्टि)
इमम्.वै.लोकम्.उदयनीयेन.प्रत्येति ।
तद्.यत्.परस्तात्.पथ्याम्.स्वस्तिम्.यजति । (सोम: प्रायणीयेष्टि)
स्वस्त्ययनम्.एव.तत्.कुरुते.अस्य.लोकस्य.समष्ट्यै ।
ता.वै.पञ्च.देवता.यजति । (सोम: प्रायणीयेष्टि)
ताभिर्.यत्.किंच.पञ्चविधम्.अधिदैवतम्.अध्यात्मम्.तत्.सर्वम्.आप्नोति ।
तासाम्.याज्या.पुरोनुवाक्याः । (सोम: प्रायणीयेष्टि)
ता.वै.स्वस्तिमत्यः.पथिमत्यः.पारितवत्यः.प्रवत्यो.नीतवत्यो.भवन्ति । (सोम: प्रायणीयेष्टि)
मरुतो.ह.वै.देव.विशो.अन्तरिक्ष.भाजना.ईश्वरा.यजमानस्य.स्वर्गंल्.लोकम्.यतो.यज्ञ.पेशसम्.कर्तोः । (सोम: प्रायणीयेष्टि)
तद्.यत्.स्वस्तिमत्यः.पथिमत्यः.पारितवत्यः.प्रवत्यो.नीतवत्यो.भवन्ति । (सोम: प्रायणीयेष्टि)
न.एनम्.मरुतो.देव.विशो.हिंसन्ति ।
स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते । (सोम: प्रायणीयेष्टि)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0