भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 7.10

7.10.1

ता.वै.विपर्यस्यति ।

7.10.2

याः.प्राय्णीयायाम्.पुरोनुवाक्यास्.ता.उदयनीयायाम्.याज्याः.करोति ।

7.10.3

या.याज्यास्.ताः.पुरोनुवाक्याः । (सोम: प्रायणीयेष्टि)

7.10.4

प्र.इव.वा.एषो.अस्माल्.लोकाच्.च्यवते.यः.प्रायणीयेन.अभिप्रैति । (सोम: प्रायणीयेष्टि)

7.10.5

तद्.यद्.विपर्यस्यति ।

7.10.6

तद्.अस्मिंल्.लोके.प्रतितिष्ठति ।

7.10.7

प्रतिष्ठायाम्.अप्रच्युत्याम् । (सोम: प्रायणीयेष्टि)

7.10.8

अथो.प्राणा.वै.छन्दांसि ।

7.10.9

प्राणान्.एव.तद्.आत्मन्.व्यतिषजत्य्.अविवर्हाय । (सोम: प्रायणीयेष्टि)

7.10.10

तस्माद्द्.हि.इमे.प्राणा.विष्वञ्चो.वान्तो.न.निर्वान्ति ।

7.10.11

त्वाम्.चित्र.श्रवस्तम.यद्.वाहिष्ठम्.तद्.अग्नय.इत्य्.अनुष्टुभौ.सम्याज्ये । (सोम: प्रायणीयेष्टि)

7.10.12

ततिर्.वै.यज्ञस्य.प्रायणीयम् ।

7.10.13

वाग्.अनुष्टुप् । (सोम: प्रायणीयेष्टि)

7.10.14

वाचा.यज्ञस्.तायते ।

7.10.15

न.एते.विपर्यस्यति ।

7.10.16

प्रतिष्ठे.वै.सम्याज्ये ।

7.10.17

न.इत्.प्रतिष्ठे.व्यतिषजानि.इति । (सोम: प्रायणीयेष्टि)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc