कौषीतकिब्राह्मण · अध्याय 7.8
अथ.अब्रवीद्.अदितिः ।
मह्यम्.एकाम्.अन्न.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम: प्रायणीयेष्टि)
तस्या.अजुहवुः ।
सा.ऊर्ध्वाम्.दिशम्.प्राजानात् ।
इयम्.वा.अदितिः । (सोम: प्रायणीयेष्टि)
तस्माद्.अस्याम्.ऊर्ध्वा.ओषधय.ऊर्ध्वा.वनस्पतय.ऊर्ध्वा.मनुष्या.उत्तिष्ठन्ति । (सोम: प्रायणीयेष्टि)
ऊर्ध्वो.अग्निर्.दीप्यते ।
यद्.अस्याम्.किंच.ऊर्ध्वम्.एव.तद्.आयत्तम् । (सोम: प्रायणीयेष्टि)
एषा.हि.तस्यै.दिक्.प्रज्ञाता ।
एवम्.वै.देवाः.प्रायणीयेन.स्वर्गंल्.लोकम्.प्राजानत् । (सोम: प्रायणीयेष्टि)
तथो.एव.एतद्.यजमान.एवम्.एव.प्रायणीयेन.एव.स्वर्गंल्.लोकम्.प्रजानाति । (सोम: प्रायणीयेष्टि)
ते.समे.स्याताम्.प्रायणीय.उदयनीये ।
देव.रथो.वा.एष.यद्.यज्ञः । (सोम: प्रायणीयेष्टि)
तस्य.एते.पक्षसी.यत्.प्रायणीय.उदयनीये ।
ते.यः.समे.कुरुते । (सोम: प्रायणीयेष्टि)
यथा.उभयतः.पक्षसा.रथेन.उग्र.वाहणेन.धावयन्न्.अध्वानम्.यत्र.अकूतम्.समश्नुवीत । (सोम: प्रायणीयेष्टि)
एवम्.स.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते ।
अथ.यो.विषमे.कुरुते । (सोम: प्रायणीयेष्टि)
यथा.अन्यतरतः.पक्षसा.रथेन.उग्र.वाहणेन.धावयन्न्.अध्वानम्.यत्र.अकूतम्.न.समश्नुवीत । (सोम: प्रायणीयेष्टि)
एवम्.स.न.स्वस्ति.स्वर्गंल्.लोकम्.समश्नुते ।
तस्मात्.समे.एव.स्याताम्.प्रायणीय.उदयनीये । (सोम: प्रायणीयेष्टि)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0