भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 7.7

7.7.1

प्रायणीयेन.वै.देवाः.प्राणम्.आप्नुवन्न्.उदयनीयेन.उदानम् ।

7.7.2

तथो.एव.एतद्.यजमानः.प्रायणीयेन.एव.प्राणम्.आप्नोत्य्.उदयनीयेन.उदानम् । (सोम: प्रायणीयेष्टि)

7.7.3

तौ.वा.एतौ.प्राण.उदानाव्.एव.यत्.प्रायणीय.उदयनीये ।

7.7.4

तस्माद्.य.एव.प्रायणीयस्य.ऋत्विजस्.त.उदयनीयस्य.स्युः । (सोम: प्रायणीयेष्टि)

7.7.5

समानौ.हि.इमौ.प्राण.उदानौ ।

7.7.6

प्रायणीयेन.ह.वै.देवाः.स्वर्गंल्.लोकम्.अभिप्रयाय.दिशो.न.प्रजज्ञुः । (सोम: प्रायणीयेष्टि)

7.7.7

तान्.अग्निर्.उवाच ।

7.7.8

मह्यम्.एकाम्.आज्य.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम: प्रायणीयेष्टि)

7.7.9

तस्मा.अजुहवुः ।

7.7.10

स.प्राचीम्.दिशम्.प्राजानात् ।

7.7.11

तस्मात्.प्राञ्चम्.अग्निम्.प्रणयन्ति । (सोम: प्रायणीयेष्टि)

7.7.12

प्रान्.यज्ञस्.तायते ।

7.7.13

प्राञ्च.उ.एव.अस्मिन्न्.आसीना.जुह्वति ।

7.7.14

एषाहि.तस्य.दिक्.प्रज्ञाता । (सोम: प्रायणीयेष्टि)

7.7.15

अथ.अब्रवीत्.सोमः ।

7.7.16

मह्यम्.एकाम्.आज्य.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम: प्रायणीयेष्टि)

7.7.17

तस्मा.अजुहवुः ।

7.7.18

स.दक्षिणाम्.दिशम्.प्राजानात् ।

7.7.19

तस्मात्.सोमम्.क्रीतम्.दक्षिणा.परिवहन्ति ।

7.7.20

दक्षिणा.तिष्ठन्न्.अभिष्टौति । (सोम: प्रायणीयेष्टि)

7.7.21

दक्षिणा.तिष्ठन्.परिदधाति ।

7.7.22

दक्षिणो.एव.एनम्.आसीना.अभिषुण्वन्ति । (सोम: प्रायणीयेष्टि)

7.7.23

एषा.हि.तस्य.दिक्.प्रज्ञाता ।

7.7.24

अथ.अब्रवीत्.सविता ।

7.7.25

मह्यम्.एकाम्.आज्य.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम: प्रायणीयेष्टि)

7.7.26

तस्मा.अजुहवुः ।

7.7.27

स.प्रतीचीम्.दिशम्.प्राजानात् ।

7.7.28

तद्.असौ.वै.सविता.यो.असौ.तपति । (सोम: प्रायणीयेष्टि)

7.7.29

तस्माद्.एतम्.प्रत्यञ्चम्.एव.अहर्.अहर्.यन्तम्.पश्यन्ति.न.प्राञ्चम् ।

7.7.30

एषा.हि.तस्य.दिक्.प्रज्ञाता । (सोम: प्रायणीयेष्टि)

7.7.31

अथ.अब्रवीत्.पथ्या.स्वस्तिः ।

7.7.32

मह्यम्.एकाम्.आज्य.आहुतिम्.जुहुत.अहम्.एकाम्.दिशम्.प्रज्ञास्यामि.इति । (सोम: प्रायणीयेष्टि)

7.7.33

तस्या.अजुहवुः ।

7.7.34

सा.उदीचीम्.दिशम्.प्राजानात् ।

7.7.35

वाग्.वै.पथ्या.स्वस्तिः । (सोम: प्रायणीयेष्टि)

7.7.36

तस्माद्.उदीच्याम्.दिशि.प्रज्ञाततरा.वाग्.उद्यते ।

7.7.37

उदञ्च.उ.एव.यन्ति.वाचम्.शिक्षितुम् । (सोम: प्रायणीयेष्टि)

7.7.38

यो.वा.तत.आगच्छति ।

7.7.39

तस्य.वा.शुश्रूषन्त.इति.ह.स्म.आह ।

7.7.40

एषा.हि.वाचो.दिक्.प्रज्ञाता । (सोम: प्रायणीयेष्टि)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc