कौषीतकिब्राह्मण · अध्याय 7.6
स.यत्र.अध्वर्युर्.औद्ग्रभणानि.जुहोति ।
तद्.उप.यजमानः.पञ्च.आहुतीर्.जुहुयात् । (सोम: दीक्षणीयेष्टि)
मनो.मे.मनसा.दीक्षताम्.स्वाहा.इति.प्रथमाम् ।
वान्.मे.वाचा.दीक्षताम्.स्वाहा.इति.द्वितीयाम् । (सोम: दीक्षणीयेष्टि)
प्राणो.मे.प्राणेन.दीक्षताम्.स्वाहा.इति.तृतीयाम् ।
मध्ये.प्राणम्.आह । (सोम: दीक्षणीयेष्टि)
मध्ये.ह्य्.अयम्.प्राणः ।
चक्षुर्.मे.चक्षुषा.दीक्षताम्.स्वाहा.इति.चतुर्थीम् । (सोम: दीक्षणीयेष्टि)
श्रोत्रम्.मे.श्रोत्रेण.दीक्षताम्.स्वाहा.इति.पञ्चमीम् ।
तद्.उ.ह.स्म.आह.कौषीतकिः । (सोम: दीक्षणीयेष्टि)
न.होतव्याः ।
अतिरिक्ता.आहुतयः.स्युर्.यद्द्.हूयेरन् ।
अध्वर्युम्.एव.जुह्वतम्.अन्वारभ्य.प्रतीकैर्.अनुमन्त्रयेत् । (सोम: दीक्षणीयेष्टि)
मनो.मे.मनसा.दीक्षताम्.इति.प्रथमाम् ।
वान्.मे.वाचा.दीक्षताम्.इति.द्वितीयाम् । (सोम: दीक्षणीयेष्टि)
प्राणो.मे.प्राणेन.दीक्षताम्.इति.तृतीयाम् ।
मध्ये.प्राणम्.आह ।
मध्ये.ह्य्.अयम्.प्राणः ।
चक्षुर्.मे.चक्षुषा.दीक्षताम्.इति.चतुर्थीम् । (सोम: दीक्षणीयेष्टि)
श्रोत्रम्.मे.श्रोत्रेण.दीक्षताम्.इति.पञ्चमीम् ।
दीक्षयत्य्.उ.ह.एव.एता.याः.पुरुषे.देवताः । (सोम: दीक्षणीयेष्टि)
नो.अतिरिक्ता.आहुतयो.हूयन्त.इति ।
अथ.खलु.श्रद्धा.एव.सकृद्.इष्टस्य.अक्षितिः । (सोम: दीक्षणीयेष्टि)
स.यः.श्रद्दधानो.यजते ।
तस्य.इष्टम्.न.क्षीयते ।
आपो.अक्षितिः । (सोम: दीक्षणीयेष्टि)
या.इमा.एषु.लोकेषु.याश्.च.इमा.अध्यात्मम् ।
स.यो.अम्मय्य्.अक्षितिर्.इति.विद्वान्.यजते । (सोम: दीक्षणीयेष्टि)
तस्य.इष्टम्.न.क्षीयते ।
एताम्.उ.ह.एव.तत्.केशी.दार्भ्यो.हिरण्मयाय.शकुनाय.सकृद्.इष्टस्य.अक्षितिम्.प्रोवाच । (सोम: दीक्षणीयेष्टि)
अपर.अह्णे.दीक्षते ।
अपर.अह्णे.ह.वा.एष.सर्वाणि.भूतानि.संवृङ्क्ते । (सोम: दीक्षणीयेष्टि)
अपि.ह.वा.एनम्.रजना.अतियन्ति ।
तस्माल्.लोहितायान्न्.इव.अस्तंवा.इति । (सोम: दीक्षणीयेष्टि)
एतंवा.इव.आत्मानम्.दीक्षमाणो.अभिदीक्षते ।
तद्.यद्.अपर.अह्णे.दीक्षते ।
सर्वेषाम्.एव.कामानाम्.आप्त्यै । (सोम: दीक्षणीयेष्टि)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0