भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 7.5

7.5.1

अथ.अतः.कैशिनी.दीक्षा ।

7.5.2

केशी.ह.दार्भ्यो.दीक्षितो.निषसाद ।

7.5.3

तम्.ह.हिरण्मयः.शकुन.आपत्य.उवाच । (सोम: दीक्षणीयेष्टि)

7.5.4

अदीक्षितो.वा.असि.दिक्षाम्.अहम्.वेद.ताम्.ते.ब्रवाणि ।

7.5.5

सकृद्.अयजे.तस्य.क्षयाद्.बिभेमि । (सोम: दीक्षणीयेष्टि)

7.5.6

सकृद्.इष्टस्य.हो.त्वम्.अक्षितिम्.वेत्थ.ताम्.त्वम्.मह्यम्.इति ।

7.5.7

स.ह.तथा.इत्य्.उवाच । (सोम: दीक्षणीयेष्टि)

7.5.8

तौ.ह.सम्प्रोचाते ।

7.5.9

स.ह.स.आस ।

7.5.10

उलो.वा.वार्ष्ण.वृद्ध.इटन्.वा.काव्यः.शिखण्डी.वा.याज्ञसेनः । (सोम: दीक्षणीयेष्टि)

7.5.11

यो.वा.स.आस.स.स.आस ।

7.5.12

स.ह.उवाच ।

7.5.13

शरीराणि.वा.एतया.इष्ट्या.दीक्षन्ते । (सोम: दीक्षणीयेष्टि)

7.5.14

या.वा.इमाः.पुरुषे.देवताः ।

7.5.15

यस्य.एता.दीक्षन्ते ।

7.5.16

स.दीक्षित.इति.ह.स्म.आह । (सोम: दीक्षणीयेष्टि)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc