भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 7.4

7.4.1

विचक्षणवत्या.वाचा.तस्य.नाम.गृह्णीयात् ।

7.4.2

सो.तत्र.प्रायश्.चित्तिः । (सोम: दीक्षणीयेष्टि)

7.4.3

चक्षुर्.वै.विचक्षणम् ।

7.4.4

चक्षुषा.हि.विपश्यति ।

7.4.5

एका.ह.त्व्.एव.व्याहृतिर्.दीक्षित.वादः.सत्यम्.एव । (सोम: दीक्षणीयेष्टि)

7.4.6

स.यः.सत्य.वदति ।

7.4.7

स.दीक्षित.इति.ह.स्म.आह ।

7.4.8

तद्.आहुः.कस्माद्.दीक्षितो.अग्निहोत्रम्.न.जुहोति.इति । (सोम: दीक्षणीयेष्टि)

7.4.9

असुरा.वा.आत्मन्न्.अजुहवुर्.उद्वाते.अनग्नौ ।

7.4.10

ते.पराभवन्न्.अनग्नौ.जुह्वतः । (सोम: दीक्षणीयेष्टि)

7.4.11

अथ.देवा.इमम्.एव.प्राणम्.अग्निम्.अन्तरा.अदधत ।

7.4.12

तद्.यत्.सायम्.प्रातर्.व्रतम्.प्रदीयते । (सोम: दीक्षणीयेष्टि)

7.4.13

अग्निहोत्रम्.ह.एव.अस्य.एतद्.अस्मिन्.प्राणे.अग्नौ.संततम्.अव्यवच्छिन्नम्.जुहोति । (सोम: दीक्षणीयेष्टि)

7.4.14

एषा.अग्निहोत्रस्य.संततिर्.दीक्षासु ।

7.4.15

प्र.उपसत्सु.चरन्ति ।

7.4.16

का.मीमांसा.सुत्यायाम् । (सोम: दीक्षणीयेष्टि)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc