कौषीतकिब्राह्मण · अध्याय 7.3
आगुर.उदृचम्.इति.इडायाम्.च.सूक्त.वाके.च.आह ।
यदा.वा.आग्नावैष्णवः.पुरोडाशो.निरुप्यते ।
अथ.एव.दीक्षित.इति.ह.स्म.आह । (सोम: दीक्षणीयेष्टि)
तस्माद्.आगुर.उदृचम्.इत्य्.एव.ब्रूयात् ।
यथा.एव.दीक्षितस्य.न.सूक्त.वाके.यजमानस्य.नाम.गृह्णाति ।
देव.गर्भो.वा.एष.यद्.दीक्षितः । (सोम: दीक्षणीयेष्टि)
न.वा.अजातस्य.गर्भस्य.नाम.कुर्वन्ति ।
तस्माद्.अस्य.नाम.न.गृह्णाति । (सोम: दीक्षणीयेष्टि)
न.वेदे.पत्नीम्.वाचयति.न.एवम्.स्तृणाति ।
असंस्थित.इव.वा.अत्र.यज्ञो.यत्.सौम्यो.अध्वरः । (सोम: दीक्षणीयेष्टि)
न.इत्.पुरा.कालात्.सौम्यम्.अध्वरम्.संस्थापयानि.इति ।
तद्.आहुः.कस्माद्.दीक्षितस्य.अशनम्.न.अश्नन्ति.इति । (सोम: दीक्षणीयेष्टि)
हविर्.एष.भवति.यद्.दीक्षते ।
तद्.यथा.हविषो.अनवत्तस्य.अश्नीयाद्.एवम्.तत् । (सोम: दीक्षणीयेष्टि)
कामम्.प्रसूते.अश्नीयात् ।
तद्.यथा.हविषो.यात.यामस्य.अश्नीयाद्.एवम्.उ.तत् । (सोम: दीक्षणीयेष्टि)
तद्.आहुः.कस्माद्.दीक्षितस्य.अन्ये.नाम.न.गृह्णन्ति.इति ।
अगिम्.वा.आत्मानम्.दीक्षमाणो.अभिदीक्षते । (सोम: दीक्षणीयेष्टि)
तद्.यद्.अस्य.अन्ये.नाम.न.गृह्णन्ति ।
न.इद्.अग्निम्.आसीदाम.इति । (सोम: दीक्षणीयेष्टि)
यद्.उ.सो.अन्यस्य.नाम.न.गृह्णाति ।
न.इद्.एनम्.अग्नि.भूतः.प्रदहानि.इति । (सोम: दीक्षणीयेष्टि)
यम्.एव.दिष्यात् ।
तस्य.दीक्षितः.सन्.नाम.ग्रसेत.एव ।
तद्.एव.एनम्.अग्नि.भूतः.प्रदहति ।
अथ.यम्.इच्छेत् । (सोम: दीक्षणीयेष्टि)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0