कौषीतकिब्राह्मण · अध्याय 7.2
प्राणा.वै.प्रयाजा.अपाना.अनुयाजाः ।
तद्.यत्.प्रयाज.अनुयाजैश्.चरन्ति ।
तत्.प्राण.अपाना.दीक्षन्ते । (सोम: दीक्षणीयेष्टि)
यद्द्.हविषा.तत्.शरीरम् ।
सो.अयम्.शरीरेण.एव.दीक्षमाणेन.सर्वान्.कामान्.आप्नोति । (सोम: दीक्षणीयेष्टि)
प्राण.अपानैर्.दीक्षमाणैः.सर्वासाम्.देवतानाम्.सलोकताम्.सायुज्यम् । (सोम: दीक्षणीयेष्टि)
पञ्चदश.सामिधेनीर्.अन्वाह ।
वज्रो.वै.सामिधेन्यः ।
पञ्चदशो.वै.वज्रः । (सोम: दीक्षणीयेष्टि)
वार्त्रघ्नाव्.आज्य.भागौ.भवतः ।
वज्रो.वार्त्रघ्नाव्.आज्य.भागौ । (सोम: दीक्षणीयेष्टि)
त्रिष्टुभौ.हविषो.याज्या.पुरोनुवाक्ये ।
वज्रस्.त्रिष्टुप् ।
एतेन.वै.देवास्.त्रिः.समृद्धेन.वज्रेण.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (सोम: दीक्षणीयेष्टि)
तथो.एव.एतद्.यजमान.एतेन.एव.त्रिः.समृद्धेन.वज्रेण.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदते । (सोम: दीक्षणीयेष्टि)
वज्रो.वार्त्रघ्नाव्.आज्य.भागौ.ता.उक्तौ ।
अथ.अतो.हविषो.याज्या.पुरोनुवाक्ये । (सोम: दीक्षणीयेष्टि)
उप.वाम्.जिह्वा.घृतम्.आचरण्यद्.इत्य्.आवती ।
तत्.पुरोनुवाक्या.रूपम् । (सोम: दीक्षणीयेष्टि)
प्रति.वाम्.जिह्वा.घृतम्.उच्चरण्यद्.इत्य्.उद्वती ।
तद्.याज्या.रूपम् । (सोम: दीक्षणीयेष्टि)
त्रिष्टुभौ.सम्याज्ये ।
बलम्.वै.वीर्यम्.त्रिष्टुप् ।
बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम: दीक्षणीयेष्टि)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0