कौषीतकिब्राह्मण · अध्याय 7.1
वाग्.दीक्षा ।
वाचा.हि.दीक्षते ।
प्राणो.दीक्षितः ।
वाचा.वै.दीक्षया.देवाः.प्राणेन.दीक्षितेन.सर्वान्.कामान्.उभयतः.परिगृह्य.आत्मन्न्.अदधत । (सोम: दीक्षणीयेष्टि)
तथो.एव.एतद्.यजमानो.वाचा.एव.दीक्षता.प्राणेन.दीक्षितेन.सर्वान्.कामान्.उभयतः.परिगृह्य.आत्मन्.धत्ते । (सोम: दीक्षणीयेष्टि)
आग्नावैष्णवम्.एकादश.कपालम्.पुरोडाशम्.निर्वपति ।
अग्निर्.वै.देवानाम्.अवर.अर्ध्यो.विष्णुः.पर.अर्ध्यः । (सोम: दीक्षणीयेष्टि)
तद्.यश्.चैव.देवानाम्.अवर.अर्ध्यो.यश्.च.पर.अर्ध्यः ।
ताभ्याम्.एव.एतत्.सर्वा.देवताः.परिगृह्य.सलोकताम्.आप्नोति । (सोम: दीक्षणीयेष्टि)
तस्मात्.कामम्.पूर्वो.दीक्षित्वा.संसुनुयात् ।
पूर्वस्य.ह्य्.अस्य.देवताः.परिगृहीता.भवन्ति । (सोम: दीक्षणीयेष्टि)
अशरीराभिः.प्राण.दीक्षाभिर्.दीक्षते । (सोम: दीक्षणीयेष्टि)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0