भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 7.11

7.11.1

सम्य्वन्तम्.भवति ।

7.11.2

अभिक्रान्त्यै.तद्.रूपम् ।

7.11.3

तद्.यथा.उपप्रयाय.स्वर्गस्य.लोकस्य.नेदीयस्तायाम्.वसेद्.एवम्.तत् । (सोम: प्रायणीयेष्टि)

7.11.4

यद्.व्.एव.शम्य्वन्तम्.भवति ।

7.11.5

सर्वा.ह.वै.देवताः.प्रायणीये.संगच्छन्ते । (सोम: प्रायणीयेष्टि)

7.11.6

स.यो.अत्र.सम्याजयेत् ।

7.11.7

यथा.संगतम्.भूमानम्.देवानाम्.पत्नीर्.अभ्यवनयेद्.एवम्.तत् । (सोम: प्रायणीयेष्टि)

7.11.8

यस्.तम्.तत्र.ब्रूयात् ।

7.11.9

संगताम्.वा.अयम्.भूमानम्.देवानाम्.पत्नीर्.अभ्यवानैषीत् । (सोम: प्रायणीयेष्टि)

7.11.10

सभामस्य.पत्न्य्.अभ्यवैष्यति.इति.तथा.ह.स्यात् ।

7.11.11

तस्माद्.उ.शम्य्वन्तम्.भवति । (सोम: प्रायणीयेष्टि)

7.11.12

देवतानाम्.असमराय । (सोम: प्रायणीयेष्टि)

7.11.13

असुरा.वै.अस्याम्.दिशि.देवान्त्.समरुन्धन्.या.इयम्.प्राच्य्.उदीची । (सोम: सोम.क्रय)

7.11.14

त.एतस्याम्.दिशि.सन्तः.सोमम्.राज्याय.अभ्यषिञ्चन्त ।

7.11.15

ते.सोमेन.राज्ञा.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (सोम: सोम.क्रय)

7.11.16

तथो.एव.एतद्.यजमानः.सोमेन.एव.राज्ञा.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदते । (सोम: सोम.क्रय)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc