कौषीतकिब्राह्मण · अध्याय 6.10
चातुर्मास्यैर्.आप्नुवन्त्.स्वर्गांल्.लोकान्त्.सर्वान्.कामान्त्.सर्वा.अष्टीः.सर्वम्.अमृतत्वम् । (zऊलगव: ब्रह्मत्व)
स.एष.प्रजापतिः.संवत्सरश्.चतुर्विंशो.यच्.चातुर्मास्यानि ।
तस्य.मुखम्.एव.वैश्वदेवम् । (zऊलगव: ब्रह्मत्व)
दर्श.पूर्ण.मासौ.पर्वाणि ।
अहो.रात्राण्य्.अस्थि.मज्जानानि ।
बाहू.वरुण.प्रघासाः । (zऊलगव: ब्रह्मत्व)
प्राणो.अपानो.व्यान.इत्य्.एतास्.तिस्र.इष्टयः ।
आत्मा.महा.हविः । (zऊलगव: ब्रह्मत्व)
या.इमा.अन्तर्.देवतास्.तद्.अन्या.इष्टीः ।
सर्वम्.वै.प्रजापतिः.संवत्सरश्.चतुर्विंशः । (zऊलगव: ब्रह्मत्व)
सर्वम्.चातुर्मास्यानि ।
तत्.सर्वेण.सर्वम्.आप्नोति.य.एवम्.वेद.य.एवम्.वेद । (zऊलगव: ब्रह्मत्व)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0