कौषीतकिब्राह्मण · अध्याय 6.9
इन्द्रो.वै.देवानाम्.ओजिष्ठो.बलिष्ठस्.तस्मा.एनत्.परिहरत.इति ।
तत्.तस्मै.परिजह्रुः । (zऊलगव: ब्रह्मत्व)
तत्.स.ब्रह्मणा.शमयाम्.चकार ।
तस्माद्.आह.इन्द्रो.ब्रह्मा.इति । (zऊलगव: ब्रह्मत्व)
तत्.प्रतीक्षते.मित्रस्य.त्वा.चक्षुषा.प्रतीक्ष.इति ।
मित्रस्य.एव.एन्तत्.तच्.चक्षुषा.शमयति । (zऊलगव: ब्रह्मत्व)
अथ.एन्तत्.प्रतिगृह्णाति.देवस्य.त्वा.सवितुः.प्रसवे.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.प्रतिगृह्णामि.इति । (zऊलगव: ब्रह्मत्व)
एताभिर्.एव.एनत्.तद्.देवताभिः.शमयति ।
तद्.व्यूह्य.तृणानि.प्राग्.दण्डम्.स्थण्डिले.सादयति.पृथिव्यास्.त्व्.आनाभौ.सादयाम्य्.आदित्या.उपस्थ.इति । (zऊलगव: ब्रह्मत्व)
पृथिवी.वा.अन्नानाम्.शमयित्री ।
शमयत्य्.एव.एनत्.तत् ।
तत.आदाय.प्राश्नात्य्.अग्नेष्.ट्व्.आस्येन.प्राश्नामि.इति । (zऊलगव: ब्रह्मत्व)
अग्निर्.वा.अन्नानाम्.शमयिता ।
शमयत्य्.एव.एनत्.तत् ।
अथ.अपो.अन्वाचामति.शान्तिर्.असि.इति । (zऊलगव: ब्रह्मत्व)
शान्तिर्.वै.भ्षजम्.आपः ।
शान्तिर्.एव.एषा.भेषजम्.यज्ञे.क्रियते । (zऊलगव: ब्रह्मत्व)
अथ.प्राणान्त्.सम्मृशते ।
तद्.यद्.एव.अत्र.प्राणानाम्.क्रूरी.कृतम्.यद्.विलिष्टम्.तद्.एव.एतद्.आप्याययति.तद्.भिषज्यति । (zऊलगव: ब्रह्मत्व)
इन्द्रस्य.त्वा.जठरे.सादयामि.इति.नाभिम्.अन्ततो.अभिमृशते ।
इन्द्रो.ह्य्.एव.एनत्.शमयाम्.चकार । (zऊलगव: ब्रह्मत्व)
अथ.यत्.सावित्रेण.जपेन.प्रसौति ।
सविता.वै.प्रसविता.कर्मण.एव.प्रसवाय । (zऊलगव: ब्रह्मत्व)
प्रजापतिर्.ह.यज्ञम्.ससृजे ।
सो.अग्न्याधेयेन.एव.रेतो.असृजत ।
देवान्.मनुष्यान्.असुरान्.इत्य्.अग्निहोत्रेण । (zऊलगव: ब्रह्मत्व)
दर्श.पूर्ण.मासाभ्याम्.इन्द्रम्.असृजत ।
तेभ्य.एतद्.अन्न.पानम्.ससृजे । (zऊलगव: ब्रह्मत्व)
एतान्.हविर्.यज्ञान्त्.सौम्यम्.अध्वरम्.इति ।
अथो.यम्.यम्.कामम्.ऐच्छंस्.तम्.तम्.एतैर्.अयनैर्.आपुः । (zऊलगव: ब्रह्मत्व)
अन्न.अद्यम्.आग्रयणेन ।
तद्.आहुः.कस्माद्.अयनानि.इति ।
गमनान्य्.एव.भवन्ति.कामस्य.कामस्य.स्वर्गस्य.च.लोकस्य । (zऊलगव: ब्रह्मत्व)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0