कौषीतकिब्राह्मण · अध्याय 6.8
तस्मिन्न्.एव.एतद्.अनुज्ञाम्.इच्छते ।
प्रणीतासु.प्रणीयमानासु.वाचम्.यच्छत्या.हविष्कृत.उद्वादनात् । (zऊलगव: ब्रह्मत्व)
एतद्.वै.यज्ञस्य.द्वारम् ।
तद्.एव.एतद्.अशून्यम्.करोति ।
इष्टे.च.स्विष्टकृत्या.अनुयाजानाम्.प्रसवात् । (zऊलगव: ब्रह्मत्व)
एतद्द्.ह.वै.यज्ञस्य.द्वितीयम्.द्वारम् ।
तद्.एव.एतद्.अशून्यम्.करोति । (zऊलगव: ब्रह्मत्व)
अथ.यत्र.ह.तद्.देवा.यज्ञम्.अतन्वत ।
तत्.सवित्रे.प्राशित्रम्.परिजह्रुः । (zऊलगव: ब्रह्मत्व)
तस्य.पाणी.प्रचिच्छेद ।
तस्मै.हिरण्मयौ.प्रतिदधुः ।
तस्माद्द्.हिरण्य.पाणिर्.इति.स्तुतः । (zऊलगव: ब्रह्मत्व)
तद्.भगाय.परिजह्रुः ।
तस्य.अक्षिणी.निर्जघान ।
तस्माद्.आहुर्.अन्धो.भग.इति । (zऊलगव: ब्रह्मत्व)
तत्.पूष्णे.परिजह्रुः ।
तस्य.दन्तान्.परोवाप ।
तस्माद्.आहुर्.अदन्तकः.पूषा.करम्भ.भाग.इति ।
ते.देवा.ऊचुः । (zऊलगव: ब्रह्मत्व)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0