भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 6.7

6.7.1

एष.ह.वै.यज्ञस्य.व्यृद्धिम्.समर्धयति.य.एताभिर्.व्याहृतिभिः.प्रायश्चित्तिम्.करोति । (zऊलगव: ब्रह्मत्व)

6.7.2

न.ह.वा.उपसृतो.ब्रूयान्.न.अहम्.एतद्.वेद.इत्य्.एता.व्याहृतीर्.विद्वान् । (zऊलगव: ब्रह्मत्व)

6.7.3

सर्वम्.ह.वा.उ.स.वेद.य.एता.व्याहृतीर्.वेद ।

6.7.4

तद्.यथा.ह.वै.दारुणः.श्लेष्म.संश्लेषणम्.स्यात्.परिचर्मण्यम्.वा । (zऊलगव: ब्रह्मत्व)

6.7.5

एवम्.एव.एता.व्याहृतयः.सर्वस्यै.त्रय्यै.विद्यायै.संश्लेषिण्यः ।

6.7.6

अथ.यद्.ब्रह्म.सदनात्.तृणम्.निरस्यति । (zऊलगव: ब्रह्मत्व)

6.7.7

शोधयत्य्.एव.एनत्.तत् ।

6.7.8

अथ.उपविशति.इदम्.अहम्.अर्वावसोः.सदसि.सीदामि.इति । (zऊलगव: ब्रह्मत्व)

6.7.9

अर्वावसुर्.ह.वै.देवानाम्.ब्रह्मा ।

6.7.10

तम्.एव.एतत्.पूर्वम्.सादयत्य्.अरिष्टम्.यज्ञम्.तनुताद्.इति । (zऊलगव: ब्रह्मत्व)

6.7.11

अथ.उपविश्य.जपति.बृहस्पतिर्.ब्रह्मा.इति ।

6.7.12

बृहस्पतिर्.ह.वै.देवानाम्.ब्रह्मा । (zऊलगव: ब्रह्मत्व)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc