भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 6.4

6.4.1

प्रजापतिस्.तपो.अतप्यत ।

6.4.2

स.तपस्.तप्त्वा.प्राणाद्.एव.इमंल्.लोकम्.प्रावृहति । (zऊलगव: ब्रह्मत्व)

6.4.3

अपानाद्.अन्तरिक्ष.लोकम् ।

6.4.4

व्यानाद्.अमुंल्.लोकम् ।

6.4.5

स.एतांस्.त्रींल्.लोकान्.अभ्यतप्यत । (zऊलगव: ब्रह्मत्व)

6.4.6

सो.अग्निम्.एव.अस्माल्.लोकाद्.असृजत ।

6.4.7

वायुम्.अन्तरिक्ष.लोकाद्.आदित्यम्.दिवः । (zऊलगव: ब्रह्मत्व)

6.4.8

स.एतानि.त्रीणि.ज्योतींष्य्.अभ्यतप्यत ।

6.4.9

सो.अग्नेर्.एव.ऋचो.असृजत । (zऊलगव: ब्रह्मत्व)

6.4.10

वायुर्.यजूंष्य्.आदित्यात्.सामानि ।

6.4.11

स.एताम्.त्रयीम्.विद्याम्.अभ्यतप्यत । (zऊलगव: ब्रह्मत्व)

6.4.12

स.यज्ञम्.अतनुत ।

6.4.13

स.ऋचा.एव.अशंसत् ।

6.4.14

यजुषा.प्राचरत्.साम्ना.उदगायत् । (zऊलगव: ब्रह्मत्व)

6.4.15

अथ.एतस्या.एव.त्रय्यै.विद्यायै.तेजो.रसम्.प्रावृहत् ।

6.4.16

एतेषाम्.एव.वेदानाम्.भिषज्यायै । (zऊलगव: ब्रह्मत्व)

6.4.17

स.भूर्.इत्य्.ऋचाम्.प्रावृहत् ।

6.4.18

भुव.इति.यजुषाम्.स्वर्.इति.साम्नाम् । (zऊलगव: ब्रह्मत्व)

6.4.19

तेन.दक्षिणतो.ब्रह्मा.आसीत् ।

6.4.20

तस्य.दक्षिणतो.वर्षीयान्.उदीचीन.प्रवणो.यज्ञः.संतस्थे । (zऊलगव: ब्रह्मत्व)

6.4.21

तस्य.ह.वै.दक्षिणतो.वर्षीयान्.उदीचीन.प्रवणो.यज्ञः.संतिष्ठते । (zऊलगव: ब्रह्मत्व)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc