भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 6.5

6.5.1

यस्य.एवम्.विद्वान्.ब्रह्मा.भवति ।

6.5.2

तद्.आहुर्.यद्.ऋचा.होता.होता.भवति.यजुषा.अध्वर्युर्.अध्वर्युः.साम्ना.उद्गाता.उद्गाता.केन.ब्रह्मा.ब्रह्मा.भवति.इति । (zऊलगव: ब्रह्मत्व)

6.5.3

यम्.एव.अमुम्.त्रय्यै.विद्यायै.तेजो.रसम्.प्रावृहति ।

6.5.4

तेन.ब्रह्मा.ब्रह्मा.भवति । (zऊलगव: ब्रह्मत्व)

6.5.5

तद्.आहुः.किंविदम्.किम्.छन्दसम्.ब्राह्मणम्.वृणीत.इति ।

6.5.6

अध्वर्युम्.इत्य्.एके । (zऊलगव: ब्रह्मत्व)

6.5.7

स.परिक्रमाणाम्.क्षेत्रज्ञो.भवति.इति ।

6.5.8

छन्दोगम्.इत्य्.एके ।

6.5.9

तथा.ह.अस्य.त्रिभिर्.वेदैर्.हविर्.यज्ञाः.संस्क्रियन्त.इति । (zऊलगव: ब्रह्मत्व)

6.5.10

बह्वृचम्.इति.त्व्.एव.स्थितम् ।

6.5.11

एतत्.परिसरणाव्.इतरौ.वेदौ ।

6.5.12

अत्र.भूयिष्ठा.होत्रा.आयत्ता.भवन्ति.इति । (zऊलगव: ब्रह्मत्व)

6.5.13

ऋग्भिर्.ग्रहा.गृह्यन्ते ।

6.5.14

ऋक्षु.सामानि.गीयन्ते ।

6.5.15

तस्माद्.बह्वृच.एव.स्यात् । (zऊलगव: ब्रह्मत्व)

6.5.16

तद्.आहुः.कियद्.ब्रह्मा.यज्ञस्य.संस्करोति.कियद्.अन्य.ऋत्विज.इति ।

6.5.17

अर्धम्.इति.ब्रूयात् । (zऊलगव: ब्रह्मत्व)

6.5.18

द्वे.वै.यज्ञस्य.वर्तनी ।

6.5.19

वाचा.अन्या.संस्क्रियते ।

6.5.20

मनसा.अन्या । (zऊलगव: ब्रह्मत्व)

6.5.21

सा.या.वाचा.संस्क्रियते ।

6.5.22

ताम्.अन्य.ऋत्विजः.संस्कुर्वन्ति ।

6.5.23

अथ.या.मनसा.ताम्.ब्रह्मा । (zऊलगव: ब्रह्मत्व)

6.5.24

तस्माद्.यावद्.ऋचा.यजुषा.साम्ना.कुर्युः ।

6.5.25

तूष्णीम्.तावद्.ब्रह्मा.आसीत । (zऊलगव: ब्रह्मत्व)

6.5.26

अर्धम्.हि.तद्.यज्ञस्य.संस्करोति ।

6.5.27

अथ.यत्र.एनम्.ब्रूयुः ।

6.5.28

ब्रह्मन्.प्रचरिष्यामो.ब्रह्मन्.प्रणेष्यामो.ब्रह्मन्.प्रस्थास्यामो.ब्रह्मन्त्.स्तोष्याम.इति.वा । (zऊलगव: ब्रह्मत्व)

6.5.29

ओम्.इत्य्.एतावता.प्रसुयात् ।

6.5.30

एतद्द्.ह.वा.एकम्.अक्षरम्.त्रयीम्.विद्याम्.प्रति.प्रति । (zऊलगव: ब्रह्मत्व)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc