कौषीतकिब्राह्मण · अध्याय 6.3
तम्.पञ्चमम्.अभ्यायच्छत् ।
तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (zऊलगव: ब्रह्मत्व)
पञ्चमम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् ।
न.वा.इदम्.चतुर्भिर्.नामभिर्.अन्नम्.अत्स्यामि.इति । (zऊलगव: ब्रह्मत्व)
स.वै.त्वम्.इत्य्.अब्रवीन्.महान्.एव.देव.इति ।
यन्.महान्.देव.आदित्यस्.तेन ।
न.ह.वा.एनम्.महान्.देवो.हिनस्ति । (zऊलगव: ब्रह्मत्व)
न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (zऊलगव: ब्रह्मत्व)
अथ.य.एनम्.द्वेष्टि ।
स.एव.पापीयान्.भवति ।
न.स.य.एवम्.वेद । (zऊलगव: ब्रह्मत्व)
तस्य.व्रतम्.उद्यन्तम्.एव.एनम्.न.ईक्षेत.अस्तम्.यन्तम्.च.इति ।
तम्.षष्ठम्.अभ्यायच्छत् । (zऊलगव: ब्रह्मत्व)
तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति ।
षष्ठम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । (zऊलगव: ब्रह्मत्व)
न.वा.इदम्.पञ्चभिर्.नामभिर्.अन्नम्.अत्स्यामि.इति ।
स.वै.त्वम्.इत्य्.अब्रवीद्.रुद्र.एव.इति । (zऊलगव: ब्रह्मत्व)
यद्.रुद्रश्.चन्द्रमास्.तेन ।
न.ह.वा.एनम्.रुद्रो.हिनस्ति ।
न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (zऊलगव: ब्रह्मत्व)
अथ.य.एनम्.द्वेष्टि ।
स.एव.पापीयान्.भवति ।
न.स.य.एवम्.वेद । (zऊलगव: ब्रह्मत्व)
तस्य.व्रतम्.विमूर्तम्.एव.न.अश्नीयान्.मज्जानम्.च.इति ।
तम्.सप्तमम्.अभ्यायच्छत् । (zऊलगव: ब्रह्मत्व)
तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति ।
सप्तमम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । (zऊलगव: ब्रह्मत्व)
न.वा.इदम्.षड्भिर्.नामभिर्.अन्नम्.अत्स्यामि.इति ।
स.वै.त्वम्.इत्य्.अब्रवीद्.ईशान.एव.इति । (zऊलगव: ब्रह्मत्व)
यद्.ईशानो.अन्नम्.तेन ।
न.ह.वा.एनम्.ईशानो.हिनस्ति ।
न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (zऊलगव: ब्रह्मत्व)
अथ.य.एनम्.द्वेष्टि ।
स.एव.पापीयान्.भवति ।
न.स.य.एवम्.वेद । (zऊलगव: ब्रह्मत्व)
तस्य.व्रतम्.अन्नम्.एव.इच्छमानम्.न.प्रत्याचक्षीत.इति ।
तम्.अष्टमम्.अभ्यायच्छति ।
तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (zऊलगव: ब्रह्मत्व)
अष्टमम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् ।
न.वा.इदम्.सप्ताभिर्.नामभिर्.अन्नम्.अत्स्यामि.इति । (zऊलगव: ब्रह्मत्व)
स.वै.त्वम्.इत्य्.अब्रवीद्.अशनिर्.एव.इति ।
यद्.अशनिर्.इन्द्रस्.तेन । (zऊलगव: ब्रह्मत्व)
न.ह.वा.एनम्.अशनिर्.हिनस्ति ।
न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (zऊलगव: ब्रह्मत्व)
अथ.य.एनम्.द्वेष्टि ।
स.एव.पापीयान्.भवति ।
न.स.य.एवम्.वेद । (zऊलगव: ब्रह्मत्व)
तस्य.व्रतम्.सत्यम्.एव.वदेद्द्.हिरण्यम्.च.बिभृयाद्.इति ।
स.एषो.अष्ट.नामा ।
अष्टधा.विहितो.महान्.देवः । (zऊलगव: ब्रह्मत्व)
आ.ह.वा.अस्य.अष्टमात्.पुरुषात्.प्रजा.अन्नम्.अत्ति ।
वसीयान्.वसीयान्.ह.एव.अस्य.प्रजायाम्.आजायते.य.एवम्.वेद । (zऊलगव: ब्रह्मत्व)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0