भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 6.2

6.2.1

स.वै.त्वम्.इत्य्.अब्रवीद्.भव.एव.इति ।

6.2.2

यद्.भव.आपस्.तेन ।

6.2.3

न.ह.वा.एनम्.भवो.हिनस्ति ।

6.2.4

न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (zऊलगव: ब्रह्मत्व)

6.2.5

अथ.य.एनम्.द्वेष्टि ।

6.2.6

स.एव.पापीयान्.भवति ।

6.2.7

न.स.य.एवम्.वेद । (zऊलगव: ब्रह्मत्व)

6.2.8

तस्य.व्रतम्.आर्द्रम्.एव.वासः.परिदधीत.आपो.वै.न.परिचक्षीत.इति । (zऊलगव: ब्रह्मत्व)

6.2.9

तम्.द्वितीयम्.अभ्यायच्छत् ।

6.2.10

तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (zऊलगव: ब्रह्मत्व)

6.2.11

द्वितीयम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् ।

6.2.12

न.वा.इदम्.एकेन.नाम्ना.अन्नम्.अत्स्यामि.इति । (zऊलगव: ब्रह्मत्व)

6.2.13

स.वै.त्वम्.इत्य्.अब्रवीत्.शर्व.एव.इति ।

6.2.14

यत्.शर्वो.अग्निस्.तेन ।

6.2.15

न.ह.वा.एनम्.शर्वो.हिनस्ति । (zऊलगव: ब्रह्मत्व)

6.2.16

न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन ।

6.2.17

अथ.य.एनम्.द्वेष्टि । (zऊलगव: ब्रह्मत्व)

6.2.18

स.एव.पापीयान्.भवति ।

6.2.19

न.स.य.एवम्.वेद ।

6.2.20

तस्य.व्रतम्.सर्वम्.एव.न.अश्नीयाद्.इति । (zऊलगव: ब्रह्मत्व)

6.2.21

तम्.तृतीयम्.अभ्यायच्छत् ।

6.2.22

तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (zऊलगव: ब्रह्मत्व)

6.2.23

तृतीयम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् ।

6.2.24

न.वा.इदम्.द्वाभ्याम्.नामभ्याम्.अन्नम्.अत्स्यामि.इति ।

6.2.25

स.वै.त्वम्.इत्य्.अब्रवीत्.पशु.पतिर्.एव.इति । (zऊलगव: ब्रह्मत्व)

6.2.26

यत्.पशु.पतिर्.वायुस्.तेन ।

6.2.27

न.ह.वा.एनम्.पशु.पतिर्.हिनस्ति ।

6.2.28

न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन । (zऊलगव: ब्रह्मत्व)

6.2.29

अथ.य.एनम्.द्वेष्टि ।

6.2.30

स.एव.पापीयान्.भवति ।

6.2.31

नस.य.एवम्.वेद । (zऊलगव: ब्रह्मत्व)

6.2.32

तस्य.व्रतम्.ब्राह्मणम्.एव.न.परिवदेद्.इति ।

6.2.33

तम्.चतुर्थम्.अभ्यायच्छत् । (zऊलगव: ब्रह्मत्व)

6.2.34

तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति ।

6.2.35

चतुर्थम्.मे.नाम.कुर्व्.इत्य्.अब्रवीत् । (zऊलगव: ब्रह्मत्व)

6.2.36

न.वा.इदम्.त्रिभिर्.नामभिर्.अन्नम्.अत्स्यामि.इति ।

6.2.37

स.वै.त्वम्.इत्य्.अब्रवीद्.उग्र.एव.देव.इति । (zऊलगव: ब्रह्मत्व)

6.2.38

यद्.उग्रो.देव.ओषधयो.वनस्पतयस्.तेन ।

6.2.39

न.ह.वा.एनम्.उग्रो.देवो.हिनस्ति । (zऊलगव: ब्रह्मत्व)

6.2.40

न.अस्य.प्रजाम्.न.अस्य.पशून्.न.अस्य.ब्रुवाणम्.चन ।

6.2.41

अथ.य.एनम्.द्वेष्टि । (zऊलगव: ब्रह्मत्व)

6.2.42

स.एव.पापीयान्.भवति ।

6.2.43

न.स.य.एवम्.वेद ।

6.2.44

तस्य.व्रतम्.स्त्रिया.एव.विवरम्.न.ईक्षेत.इति । (zऊलगव: ब्रह्मत्व)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc