कौषीतकिब्राह्मण · अध्याय 6.1
प्रजापतिः.प्रजाति.कामस्.तपो.अतप्यत ।
तस्मात्.तप्तात्.पञ्च.अजायन्त । (zऊलगव: ब्रह्मत्व)
अघिर्.वायुर्.आदित्यश्.चन्द्रमा.उषाः.पञ्चमी ।
तान्.अब्रवीद्.यूयम्.अपि.तप्यध्वम्.इति ।
ते.अदीक्षन्त । (zऊलगव: ब्रह्मत्व)
तान्.दीक्षितांस्.तेपानान्.उषाः.प्राजापत्य.अप्सरो.रुपम्.कृत्वा.पुरस्तात्.प्रत्युदैत् । (zऊलगव: ब्रह्मत्व)
तस्याम्.एषाम्.मनः.समपतत् ।
ते.रेतो.असिञ्चन्त ।
ते.प्रजापतिम्.पितरम्.इत्य्.अब्रुवन् । (zऊलगव: ब्रह्मत्व)
रेतो.वा.असिचामहै.तन्.नो.मामुया.भूद्.इति ।
स.प्रजापतिर्.हिरण्मयम्.चमसम्.अकरोद्.इषु.मात्रम्.ऊर्ध्वम्.एवम्.तिर्यञ्चम् । (zऊलगव: ब्रह्मत्व)
तस्मिन्न्.एनत्.समसिञ्चत् ।
तत.उदतिष्ठत्.सहस्र.अक्षः.सहस्र.पात् । (zऊलगव: ब्रह्मत्व)
सहस्रेण.प्रतिहिताभिः ।
स.प्रजापतिम्.पितरम्.अभ्यायच्छत् ।
तम्.अब्रवीत्.कथा.मा.अभ्यायच्छसि.इति । (zऊलगव: ब्रह्मत्व)
नाम.मे.कुर्व्.इत्य्.अब्रवीत् ।
न.वा.इदम्.अविहितेन.नाम्ना.अन्नम्.अत्स्यामि.इति । (zऊलगव: ब्रह्मत्व)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0