भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 5.10

5.10.1

त्रयोदशम्.वा.एतन्.मासम्.आप्नोति.यत्.शुनासीर्येण.यजते ।

5.10.2

एतावान्.वै.संवत्सरो.यद्.एष.त्रयोदशो.मासः । (चातुर्मास्य)

5.10.3

तद्.अत्र.एव.सर्वः.संवत्सर.आप्तो.भवति ।

5.10.4

अथ.यत्.शुनासीरौ.यजति । (चातुर्मास्य)

5.10.5

शान्तिर्.वै.भेषजम्.शुना.सीरौ ।

5.10.6

शान्तिर्.एव.एषा.भेषजम्.अन्ततो.यज्ञे.क्रियते । (चातुर्मास्य)

5.10.7

स.यद्य्.अग्निर्.मथ्यते.यद्.वैश्वदेवस्य.तन्त्रम्.तत्.तन्त्रम् ।

5.10.8

यद्य्.उ.न.मथ्यते.पौर्णमासम्.एव.तन्त्रम्.भवति । (चातुर्मास्य)

5.10.9

प्रतिष्ठा.वै.पौर्णमासम्.प्रतिष्ठित्या.एव ।

5.10.10

अथ.यत्.सप्तदश.सामिधेन्यः.सद्वन्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (चातुर्मास्य)

5.10.11

अथ.यन्.नव.प्रयाजा.नव.अनुयाजा.अष्टौ.हवींषि.स्विष्टकृन्.नवमः । (चातुर्मास्य)

5.10.12

तन्.नक्षत्रियाम्.विराजम्.आप्नोति ।

5.10.13

समानानि.त्व्.एव.पञ्च.संचराणि.हवींषि.भवन्ति.पौष्ण.अन्ताइ.वैश्वदेकिकानि ।

5.10.14

तेषाम्.उक्तम्.ब्राह्मणम् । (चातुर्मास्य)

5.10.15

अथ.यत्.शुना.सीरौ.यजति ।

5.10.16

तयोर्.उक्तम्.ब्राह्मणम् ।

5.10.17

अथ.यद्.वायुम्.यजति ।

5.10.18

प्राणो.वै.वायुः । (चातुर्मास्य)

5.10.19

प्राणम्.एव.तद्.आत्मन्.धत्ते ।

5.10.20

अथ.यत्.सौर्य.एक.कपालः ।

5.10.21

असौ.वै.सूर्यो.यो.असौ.तपति । (चातुर्मास्य)

5.10.22

एतम्.एव.तत्.प्रीणाति ।

5.10.23

अथ.यत्.श्वेता.दक्षिणा ।

5.10.24

एतम्.एव.तत्.प्रीणाति । (चातुर्मास्य)

5.10.25

एतस्य.एव.तद्.रूपम्.क्रियते ।

5.10.26

अथ.यत्.प्रायश्.चित्त.प्रतिनिधीन्.कुर्वन्ति.यद्.आहुतीर्.जुह्वति । (चातुर्मास्य)

5.10.27

स्वस्त्ययनम्.एव.तत्.कुर्वते ।

5.10.28

यज्ञस्य.एव.शान्त्यै ।

5.10.29

यजमानस्य.च.भिषज्यायै । (चातुर्मास्य)

5.10.30

अथ.यत्.स्वैर्.अग्निभिर्.यजमानम्.संस्कुर्वन्ति ।

5.10.31

देव.रथो.व.अग्नयः । (चातुर्मास्य)

5.10.32

देव.रथ.एव.एनम्.तत्.समारोपयन्ति ।

5.10.33

स.एतेन.देव.रथेन.स्वर्गंल्.लोकम्.एति ।

5.10.34

सुकृताम्.यत्र.लोकः.सुकृताम्.यत्र.लोकः । (चातुर्मास्य)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc