भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 5.9

5.9.1

अथ.यद्.अग्निम्.कव्य.वाहनम्.अन्ततो.यजति ।

5.9.2

एतत्.स्विष्टकृतो.वै.पितरः ।

5.9.3

तस्माद्.एनम्.अन्ततो.यजति । (चातुर्मास्य)

5.9.4

अथ.यद्.अप.उपस्पृशति.तस्य.उक्तम्.ब्राह्मणम् ।

5.9.5

अथ.यद्.इडाम्.उपहूय.अवघ्राय.न.प्राश्नन्ति । (चातुर्मास्य)

5.9.6

पशवो.वै.इडा ।

5.9.7

न.इद्.यजमानस्य.पशुन्.प्रवृणजानि.इति ।

5.9.8

अथ.यद्.अध्वर्युः.पितृभ्यो.ददाति । (चातुर्मास्य)

5.9.9

पितॄन्.एव.तत्.प्रीणाति ।

5.9.10

अथ.यत्.पवित्रवति.मार्जयन्ते.तस्य.उक्तम्.ब्राह्मणम् । (चातुर्मास्य)

5.9.11

अथ.यद्.ऋचम्.जपन्ति.स्वस्त्ययनम्.एव.तत्.कुर्वते ।

5.9.12

अथ.यद्.उदञ्चः.परेत्य.गार्हपत्या.आहवनीया.उपतिष्ठन्ते । (चातुर्मास्य)

5.9.13

प्रीत्वा.एव.तद्.देवेष्व्.अन्तततो.अर्थम्.वदन्ते ।

5.9.14

अथो.दक्षिणा.संस्थो.वै.पितृ.यज्ञः । (चातुर्मास्य)

5.9.15

तम्.एव.एतद्.उदक्.संस्थम्.कुर्वन्ति ।

5.9.16

अथ.यत्.प्राञ्च.उपनिष्क्रम्य.आदित्यम्.उपतिष्ठन्ते । (चातुर्मास्य)

5.9.17

देव.लोको.वा.आदित्यः ।

5.9.18

पितृ.लोकः.पितरः ।

5.9.19

देव.लोकम्.एव.तत्.पितृ.लोकाद्.अभ्युत्क्रामन्ति । (चातुर्मास्य)

5.9.20

अथ.यत्.सूक्त.वाके.यजमानस्य.नाम.न.गृह्णाति ।

5.9.21

न.इद्.यजमानम्.प्रवृणजानि.इति । (चातुर्मास्य)

5.9.22

अथ.यत्.पत्नी.सम्याजैर्.न.चरन्ति ।

5.9.23

न.इत्.पत्न्यः.प्रवृणजाम.इति । (चातुर्मास्य)

5.9.24

अथ.यद्.उदञ्चः.परेत्य.त्र्यम्बकैश्.चरन्ति ।

5.9.25

रुद्रम्.एव.तत्.स्वायाम्.दिशि.प्रीणन्ति । (चातुर्मास्य)

5.9.26

अथो.दक्षिणा.संस्थो.वै.पितृ.यज्ञः ।

5.9.27

तम्.एव.एतद्.उदक्.संस्थम्.कुर्वन्ति । (चातुर्मास्य)

5.9.28

अथ.यद्.अन्तत.इष्ट्वा.इष्ट्या.यजते ।

5.9.29

एतत्.संस्था.वै.साकमेधाः । (चातुर्मास्य)

5.9.30

तस्माद्.अन्तत.इष्ट्वा.इष्ट्या.यजते ।

5.9.31

अथ.यत्.परस्तात्.पौर्णमासेन.यजते । (चातुर्मास्य)

5.9.32

तथा.ह.अस्य.पूर्व.पक्षे.साकमेधैर्.इष्टम्.भवति । (चातुर्मास्य)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc