कौषीतकिब्राह्मण · अध्याय 5.8
अथ.यद्.अपर.अह्णे.पितृ.यज्ञेन.चरन्ति ।
अपक्षय.भाजौ.वै.पितरः ।
तस्माद्.अपर.अह्णे.पितृ.यज्ञेन.चरन्ति । (चातुर्मास्य)
तद्.आहुर्.यद्.अपर.पक्ष.भाजः.पितरो.अथ.कस्माद्.एतान्.पूर्व.पक्षे.यजन्ति.इति । (चातुर्मास्य)
दैवा.वा.एते.पितरः ।
तस्माद्.एनान्.पूर्व.पक्षे.यजन्ति ।
अथ.यद्.एकाम्.सामिधेनीम्.अन्वाह । (चातुर्मास्य)
सकृद्.इव.वै.पितरः ।
तस्माद्.एकाम्.सामिधेनीम्.अन्वाह ।
सा.वा.अनुष्टुब्.भवति । (चातुर्मास्य)
वाग्.अनुष्टुप् ।
पराञ्च.उ.वै.पितरः ।
तान्.एव.एतद्.वाचा.अनुष्टुभा.आगमयति । (चातुर्मास्य)
अथ.यद्.यजमानस्य.आर्षेयम्.न.आह ।
न.इद्.यजमानम्.प्रवृणजानि.इति । (चातुर्मास्य)
अथ.एतम्.निगदम्.अन्वाह.तस्य.उक्तम्.ब्राह्मणम् ।
अथ.यत्.सोमम्.पितृमन्तम्.पितॄन्.वा.सोमवतः.पितॄन्.बर्हिषदः.पितॄन्.अग्निष्व्.आत्तान्.इत्य्.आवाहयति । (चातुर्मास्य)
दैवा.वा.एते.पितरः ।
तस्माद्.एनान्.आवाहयति ।
अथ.यद्.अग्निम्.कव्य.वाहनम्.आवाहयति । (चातुर्मास्य)
एतत्.स्विष्टकृतो.वै.पितरः ।
तस्माद्.एनम्.आवाहयति ।
न.ह.एके.स्वम्.महिमानम्.आवाहयन्ति.यजमानस्य.एष.महिमा.इति.वदन्तः । (चातुर्मास्य)
आवाहयेद्.इति.त्व्.एव.स्थितम् ।
अग्नेर्.ह्य्.एव.एष.महिमा ।
अथ.यत्.प्रयाज.अनुयाजेभ्यो.बर्हिष्मन्ता.उत्सृजति । (चातुर्मास्य)
प्रजा.वै.बर्हिः ।
तेन.प्रजाम्.प्रवृणजानि.इति ।
ते.वै.षड्.भवन्ति ।
षड्.वा.ऋतवः । (चातुर्मास्य)
ऋतवः.पितरः ।
पितॄन्.एव.तत्.प्रीणाति ।
अथ.यज्.जीवनवन्ताव्.आज्य.भागौ.भवतः । (चातुर्मास्य)
यजमानम्.एव.तज्.जीवयति ।
अथ.यत्.तिस्रस्.तिस्र.एक.एकस्य.हविषो.भवन्ति । (चातुर्मास्य)
त्रीणि.वै.हवींषि.भवन्ति ।
तेषाम्.समवद्यति ।
तस्मात्.तिस्रस्.तिस्र.एक.एकस्य.हविषो.भवन्ति । (चातुर्मास्य)
अथो.देव.कर्मणा.एव.एतत्.पितृ.कर्म.व्यावर्तयति ।
अथो.पराम्.उ.वै.परावतम्.पितरो.गताः ।
आह्वयत्य्.एव.एनान्.प्रथमया । (चातुर्मास्य)
द्वितीयया.आगमयति ।
प्र.एव.तृतीयया.यच्छति । (चातुर्मास्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0