भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 5.7

5.7.1

अथ.य.मरुतः.क्रीडिनो.यजति ।

5.7.2

इन्द्रस्य.वै.मरुतः.क्रीडिनः ।

5.7.3

तस्माद्.एनान्.इन्द्रेण.उपसंहितान्.यजति । (चातुर्मास्य)

5.7.4

अथ.यन्.महा.इन्द्रम्.अन्ततो.यजति ।

5.7.5

अन्तम्.वै.श्रेष्ठी.भजते ।

5.7.6

तस्माद्.एनम्.अन्ततो.यजति । (चातुर्मास्य)

5.7.7

अथ.यद्.अग्निम्.प्रणयन्ति.यन्.मथ्यते.तस्य.उक्तम्.ब्राह्मणम् ।

5.7.8

अथ.यत्.सप्तदश.सामिधेन्यः.सद्वन्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (चातुर्मास्य)

5.7.9

अथ.यन्.नव.प्रयाजा.नव.अनुयाजा.अष्टौ.हवींषि.स्विष्टकृन्.नवमः । (चातुर्मास्य)

5.7.10

तन्.नक्षत्रियाम्.विराजम्.आप्नोति ।

5.7.11

समानानि.षट्.संचराणि.हवींषि.भवन्त्य्.ऐन्द्राग्न.अन्तानि.वारुण.प्रघासिकानि । (चातुर्मास्य)

5.7.12

तेषाम्.उक्तम्.ब्राह्मणम् ।

5.7.13

अथ.यन्.महा.इन्द्रम्.यजति.तस्य.उक्तम्.ब्राह्मणम् । (चातुर्मास्य)

5.7.14

अथ.यद्.वैश्व.कर्मण.एक.कपालः ।

5.7.15

असौ.वै.विष्व.कर्मा.यो.असौ.तपति । (चातुर्मास्य)

5.7.16

एतम्.एव.तत्.प्रीणाति ।

5.7.17

अथ.यद्.ऋषभम्.ददाति ।

5.7.18

ऐन्द्रो.हि.यज्ञ.क्रतुः । (चातुर्मास्य)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc