कौषीतकिब्राह्मण · अध्याय 5.6
ऐन्द्रो.वा.एष.यज्ञ.क्रतुर्.यत्.साकमेधाः ।
तद्.यथा.महा.राजः.पुरस्तात्.सेनानीकानि.प्रत्यूह्य.अभयम्.पन्थानम्.अन्वियात् । (चातुर्मास्य)
एवम्.एव.एतत्.पुरस्ताद्.देवता.यजति ।
तद्.यथा.अदः.सोमस्य.महा.व्रतम् । (चातुर्मास्य)
एवम्.एव.एतद्.इष्टि.महा.व्रतम् ।
अथ.यद्.अग्निम्.अनीकवन्तम्.प्रथमम्.देवतानाम्.यजति । (चातुर्मास्य)
अग्निर्.वै.देवानाम्.मुखम् ।
मुखत.एव.तद्.देवान्.प्रीणाति ।
अथ.यन्.मध्यंदिने.मरुतः.सांतपनात्.यजति । (चातुर्मास्य)
मध्यंदिने.वै.संतपति ।
तस्मान्.मध्यंदिने.मरुतः.सांतपनान्.यजति । (चातुर्मास्य)
अथो.इन्द्रस्य.वै.मरुतः ।
ऐन्द्रो.मध्यंदिनः ।
तस्मान्.मध्यंदिने.मरुतः.सांतपनान्.यजति । (चातुर्मास्य)
अथ.यत्.सायम्.गृह.मेधीयेन.चरन्ति ।
पुष्टि.कर्म.वा.एतद्.यद्.गृह.मेधीयः । (चातुर्मास्य)
सायम्.पोषः ।
तस्मात्.पोषवन्ताव्.आज्य.भागौ.भवतः ।
यजमानम्.एव.तत्.पोषयति । (चातुर्मास्य)
अथ.यत्.प्रातः.पूर्ण.दर्वेण.चरन्ति ।
पूर्वे.द्युः.कर्मणा.एव.एतत्.प्रातः.कर्म.उपसंतनोति । (चातुर्मास्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0