कौषीतकिब्राह्मण · अध्याय 5.5
अथो.मध्यस्थो.वा.इन्द्रः ।
तस्माद्.एनम्.मध्यतो.यजति ।
अथ.यद्.वारुणी.पयस्या । (चातुर्मास्य)
इन्द्रो.वै.वरुणः ।
स.उ.वै.पयो.भोजनः ।
तस्माद्.वारुणी.पयस्या । (चातुर्मास्य)
अथ.यन्.मारुती.पयस्या ।
अप्सु.वै.मरुतः.श्रिताः ।
तस्माद्.एनान्.पयस्या.यजति । (चातुर्मास्य)
आपो.हि.पयः ।
अथो.इन्द्रस्य.वै.मरुतः ।
ऐन्द्रम्.पयः ।
तस्मान्.मारुती.पयस्या । (चातुर्मास्य)
अथ.यत्.काय.एक.कपालः ।
प्रजापतिर्.वै.कः ।
तम्.एव.तत्.प्रीणाति । (चातुर्मास्य)
अथो.सुखस्य.एव.एतन्.नामधेयम्.कम्.इति ।
सुखम्.एव.तद्.आत्मन्.धत्ते । (चातुर्मास्य)
अथ.यन्.मिथुनौ.गावौ.ददाति ।
तत्.प्रजात्यै.रूपम् ।
अथ.यद्.वाजिनो.यजति । (चातुर्मास्य)
तेषाम्.उक्तम्.ब्राह्मणम् ।
अथ.यद्.अप्सु.वरुणम्.यजति ।
स्व.एव.एनम्.तद्.आयतने.प्रीणाति । (चातुर्मास्य)
अथ.यत्.परस्तात्.पौर्णमासेन.यजते ।
तथा.ह.अस्य.पूर्व.पक्षे.वरुण.प्रघासैर्.इष्टम्.भवति । (चातुर्मास्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0