कौषीतकिब्राह्मण · अध्याय 5.4
अथ.यद्.अग्निम्.प्रणयन्ति ।
यम्.एव.अमुम्.वैश्वदेवे.मन्थन्ति ।
तम्.एव.तत्.प्रणयन्ति । (चातुर्मास्य)
अथ.यन्.मथ्यते.तस्य.उक्तम्.ब्राह्मणम् ।
अथ.यत्.सप्तदश.सामिधेन्यः.सद्वन्ताव्.आज्य.भागौ.विराजौ.सम्याज्ये.तस्य.उक्तम्.ब्राह्मणम् । (चातुर्मास्य)
अथ.यन्.नव.प्रयाजा.नव.अनुयाजा.नव.एतानि.हवींषि ।
तन्.नक्षत्रियाम्.विराजम्.आप्नोति । (चातुर्मास्य)
समानानि.पञ्च.संचराणि.हवींषि.भवन्ति.पौष्ण.अन्तानि.वैश्वदेविकानि । (चातुर्मास्य)
तेषाम्.उक्तम्.ब्राह्मणम् ।
अथ.यद्.ऐन्द्राग्नो.द्वादश.कपालः ।
प्रतिष्ठे.वा.इन्द्राग्नी.प्रतिष्ठित्या.एव । (चातुर्मास्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0