कौषीतकिब्राह्मण · अध्याय 5.3
वैश्वदेवेन.वै.प्रजापतिः.प्रजा.असृजत ।
ताः.सृष्टा.अप्रसूता.वरुणस्य.यवान्.जक्षुः ।
ता.वरुणो.वरुण.पाशैः.प्रत्यमुञ्चत् । (चातुर्मास्य)
ताः.प्रजाः.प्रजापतिम्.पितरम्.एत्य.उपाधावन् ।
उप.तम्.यज्ञ.क्रतुम्.जानीहि.येन.इष्ट्वा.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.सम्प्रमुच्येमहि.इति । (चातुर्मास्य)
तत.एतम्.प्रजापतिर्.यज्ञ.क्रतुम्.अपश्यद्.वरुण.प्रघासान् ।
तम्.आहरत्.तेन.अयजत । (चातुर्मास्य)
तेन.इष्ट्वा.वरुणम्.अप्रीणात् ।
स.प्रीतो.वरुणो.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.प्रजाः.प्रामुञ्चत् । (चातुर्मास्य)
प्र.ह.वा.अस्य.प्रजा.वरुण.पाशेभ्यः.सर्वस्माच्.च.पाप्मनः.सम्प्रमुच्यते.य.एवम्.वेद । (चातुर्मास्य)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0